________________
USA
॥७॥ lal
ll
||७॥ ||
उत्तराध्ययन-
सूत्रम् १२१
परीषहनाम द्वितीयमध्ययनम्
||७||
nol
||७||
Joil
lish lesh
llall llell Ilal Iroll Isil llall
Ill
III
Isl IIsll
इत्थं निगद्य साकाराऽनशनं प्रतिपद्य च । स्मरन् पञ्च नमस्कारान्, कायोत्सर्ग चकार सः ।।२९।। सद्यः सुदर्शनाभ्यर्ण-मायासीदर्जुनोऽप्यथ । नाशकत्तमुपद्रोतुं, किन्तु धर्मप्रभावतः ।।३०।। ततस्तं परितोऽभ्राम्य-द्वलवानर्जुनोऽधिकम् । शशाक शशकं सिंह-मिव नाक्रमितुं पुनः ।। ३१।। भ्रामं भ्राममविश्राम, यक्षः श्रान्तोऽभवत्ततः । न तु तं द्रष्टुमैशिष्ट, दुर्दृष्ट्याऽर्कमुलूकवत् ।। ३२।। आदाय मुद्गरं मुक्त्वा-ऽर्जुनं यक्षोऽगमत्तत: । अपि देवबलाद्धर्म-बलमेव विशिष्यते ! ।।३३।। मुक्तस्तेनार्जुन: पृथव्यां, पपात च्छिन्नशाखिवत् । उत्तस्थौ च क्षणादङ्गं, मोटयन् गतनिद्रवत् ।।३४।। किमकार्ष ? क स्थितोऽस्मि ?, का दशा मम विद्यते ! । इति स ज्ञातवान्नैव, निद्रावस्थानुभूतवत् ।।३५ ।। सोऽथाऽप्राक्षीत्स्वस्वरूपं, कृतोत्सर्ग सुदर्शनम् । उपसर्गः शशामेति, सोप्युत्सर्गमपारयत् ।। ३६ ।। सर्वं तत्पूर्ववृत्तान्तं, तस्मै सम्यग् जगाद च । तच्छ्रुत्वा जातनिर्वेदो-ऽर्जुनश्चिन्तितवानिति ।। ३७।। अहो ! अज्ञानिना घोरं, कर्मेदं नरकप्रदम् ! । मया कृतमिति ध्यायन्, सोऽपृच्छदिति तं पुनः ।।३८।। किमर्थं प्रस्थितोसि त्वं ?, ब्रूहि भ्रातः ! सुदर्शन ! । सोऽभ्यधाच्छ्रीमहावीरं, वन्दनार्थं व्रजाम्यहम् ।। ३९।। तच्छ्रुत्वेत्यर्जुनोऽवादी-द्वन्दितुं परमेश्वरम् । अहमप्यागमिष्यामि, त्वया सह महामते ! ।। ४०।। ततस्तेन समं हष्टः, श्रीमहावीरसन्निधौ । अगात्सुदर्शनः स्वामिदर्शनोत्सुकदर्शनः ।। ४१।।
Moll
Wel
lol
foll
ell llalll
lal ||oll
oll
lel Isl 1160 ||७|| lell Isll
16
161
For Personal Private Use Only