SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ||all Joll isi परीषहनाम द्वितीयIs मध्ययनम् सहस्रपलनिष्पन्नं, गृहीत्वा लोहमुद्गरम् । तान्नारीसप्तमान् गोष्ठी-पुरुषान् षट् जघान च ।।१६।। इत्थं प्रतिदिनं नारी-सप्तमान् मानवान् स षट् । जघान सतताभ्यासाद्, भ्रामं भ्रामं पुराबहिः ।।१७।। तज्ज्ञात्वा पूर्जन: सर्व-स्तावन्न निरगावहिः । यावत्तेन हता न स्युः, षट् नारीसप्तमा नरा: ।।१८।। अन्यदा तत्पुरोपान्ते, श्रीवीरः समवासरत् । नत्वर्जुनभयात्कोऽपि, जिनं नन्तुं ययौ जनः ।।१९।। तदा तत्पुरवास्तव्यः, श्रुत्वा श्रीमज्जिनागमम् । एवं सुदर्शन: श्रेष्ठी, दध्यौ हर्षोच्छसत्तनुः ।।२०।। अहो ! जगजनाम्भोजप्रबोधननभोमणिम् । श्रीवीरमपि नन्तुं नो, यात्यर्जुनभयाजनः ।। २१।। जिनस्य विश्वत्रितय-त्रायिणो ध्यायिनं जनम् । हन्तुमीष्टे न हीन्द्रोऽपि, तजनोऽयं बिभेति किम् ? ।। २२।। यद्भाव्यं तद्भवतु वा, स्वामिनं किन्तु वन्दितुम् । यास्याम्येवेति स ध्यात्वा, निरगानगराबहिः ।। २३।। अर्जुनोऽपि दधावे द्राग, वीक्ष्यायान्तं सुदर्शनम् । उल्लालयन् मुद्गरं तं, पुष्पकन्दुकलीलया ।। २४ ।। तं चापतन्तं वेगेन, धनुर्मुक्तपृषक्तवत् । वीक्ष्येति व्यकुशद्वर्य-स्थैर्यधैर्यः सुदर्शनः ।। २५ ।। अयं मुद्गरपाणिर्मा, हन्तुमायाति मालिकः । तदात्मकृत्यं कुर्वेह-मेवं ध्यात्वेति सोऽब्रवीत् ।। २६।। अर्हत्सिद्धमुनीन् जैनं, धर्म च जगदुत्तमम् । शरणं प्रतिपन्नोऽस्मि, श्रीवीरं च जगद्गुरुम् ।। २७ ।। किञ्चास्मादुपसर्गाचे-दद्यमोक्षो भवेन्मम । तदा चतुर्विधाहारः, कल्पते नान्यथा पुनः ! ।।२८।। Illl lifoll llall 6ll ||61 For Personal Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy