________________
उत्तराध्ययन
सूत्रम् ११९
परीषहनाम द्वितीयमध्ययनम्
lel Isil
कुसुमैर्मेदुरामोद-प्रमोदितजगजनैः । तं यक्षमर्जुनो भूरि-भक्तव्याऽपूजयदन्वहम् ।।३।। स्कन्दश्रीरन्यदा भर्तु-भक्तं दत्वा गृहं प्रति । पुष्पाण्यादाय वलिता, यक्षचैत्यान्तिकं ययौ ।।४।। तदा च तां दुर्ललित-गोष्ठीसत्का मदोत्कटाः । यक्षवेश्मस्थिताः प्रेक्षा-मासुः षट् कामिनो नराः ।।५।। असौ सौन्दर्यवसति-र्वनिताऽर्जुनमालिनः । गृह्यतामिति जल्पन्तो, द्रुतं ते जगृहुश्च ताम् ।।६।। यक्षायतनमध्ये च, तां समानीय कामिनीम् । यक्षस्याग्रे बुभुजिरे, ते सर्वेऽपि पुनः पुनः ।।७।। तदा च यक्षपूजार्थं, तत्रागादर्जुनोऽपि हि । तञ्चायान्तं विलोक्यैवं, स्कन्दश्रीस्तानभाषत ।।८।। आगच्छत्यर्जुनोऽसौ त-त्किं मां यूयं विमोक्ष्यथ ? । ततस्तेऽचिन्तयन्नून-मेतस्याः प्रियमस्त्यदः ।।९।। वराकान्मालिकादस्मा-त्रास्माकं भीरु ! भीरिति । ब्रुवन्तस्ते बबन्धुश्च, द्रुतमर्जुनमालिनम् ।।१०।। तं यक्षस्य पुरो न्यस्य, तस्य पश्यत एव हि । सिषेविरे ते तत्कान्ता-महम्पूर्विकया मुहुः ।। ११ ।। स्वभार्यां भुज्यमानां तै-वीक्ष्याऽचिन्तयदर्जुनः । एनं यक्ष पुष्पपुजैः, पूजयाम्यहमन्वहम् ।।१२।। अद्य त्वस्यैव पुरतः, प्राप्नोम्येतां विडम्बनाम् । तनिश्चितमिदं नैव, यक्ष: कोप्यत्र विद्यते ! ।।१३।। यदि चात्र भवेद्यक्ष-स्तदासौ मां स्वसेवकम् । नैवेदानीमुपेक्षेत, पीड्यमानमनाथवत् ।।१४।। ध्यायन्तमिति तं ज्ञात्वा, यक्षस्तदनुकम्पया । प्रविवेशाशु तस्याङ्गे-ऽछिदत्तद्वन्धनानि च ।। १५ ।।
nel
llol
lol
16
||fall
all lleel
|Gl
Virgh
llel
Jain Education inaries
For Personal & Private Use Only
le.Miwww.iainelibrary.org