________________
Is
iel
उत्तराध्ययन-
ol
सूत्रम् ११६
fol lall
परिषहनाम द्वितीयमध्ययनम्
foll
foll lifoll
Mall leel liell
वपुर्धमादिना सीधु, पीतं ज्ञात्वाथ तो मुनी । जातानुतापौ निष्पापो, मिथो व्यमृशतामिति ।।७।। अयुक्तमेतदावाभ्या-मजानद्ध्यां महत्कृतम् । सुरामप्यऽपिबावाऽऽवां, प्रमादादसमीक्ष्य यत् ।।८।। सेवेताकल्प्यमप्येव-माहारार्थी कदाचन ! । तदाहारपरीहार-मेवाऽऽवां कुर्वहेऽधुना ! ।।९।। इत्यालोच्यापगातीर-गतकाष्ठोपरि स्थितौ । तावकार्टा पादपोप-गमनं मुनिसत्तमो ।।१०।। अकालेऽपि तदा मेघ-वृष्टिर्जज्ञेऽतिभूयसी । पूरयन्ती पयः पूरै-नंदी प्लावितसैकतैः ।।११।। आरूढश्रमणं दारु, ततारोडुपवत्ततः । उत्तेरतुस्ततो नैव, तदापि व्रतिनौ तु तौ ।।१२।। सोऽथ सिन्धुरयः कूल-तरून्मूलनतत्परः । काष्ठारूढौ यती सद्य-स्तौ निनाय पयोनिधौ ।।१३।। उच्छलालोलकल्लोल-लोलनान्दोलनव्यथाम् । उल्लोलोत्क्षिप्तकाष्ठौधा-भिघातञ्चातिदारुणम् ।।१४।। जलजन्तुकृतां ग्रास-विबाधाञ्चातिदुःसहाम् । तत्र धीरमनस्कौ ता-वक्षमेतां क्षमानिधी ।। १५ ।। (युग्मम्) यावजीवं विषह्येति, तीव्र शय्यापरीषहम् । देवभूयं सोमदत्त-सोमदेवावविन्दताम् ।।१६।। तौ साधुसिंहो सहत: स्म शय्या-परीषहं यद्वदहार्यधैर्यो । तथा विषह्यो मुनिभिः स सर्वेः, शमामृतक्षीरपयोधिकल्पः ।।१७।। इति शय्यापरीषहे सोमदत्तसोमदेवर्षिकथा ।।११।। शय्यास्थितस्य च कदाचित्तथाविधः शय्यातरोऽन्यो वा कश्चिदाक्रोशेदपि, तत आक्रोशपरीषहमाह -
losill foll IGll Ioll
all llell
Ioli
all sil
Nell
liall
lel Jel
११६
Isl
lain Economia
For Personal Private Use Only