SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ చా చా చా చా చా రా ||६|| उत्तराध्ययन- ॥॥ सूत्रम् १११ TTTTTTTTTTT Jain Education International अथावश्यककाले तं, प्रोचुः सङ्गमसूरयः । आलोचयतु भिक्षाया, दोषानद्यतनान् भवान् ! ।। २९ ।। युष्माभिः सममेवाद्य, भिक्षायै हिण्डितोऽस्म्यऽहम् । तत्किमालोचयामीति, दत्तेनोक्ते गुरुर्जगौ ।। ३० ।। धात्रीचिकित्सापिण्डोऽद्य, भक्षितोस्ति त्वयैव यः । तमालोचय तच्छ्रुत्वा, सकोप इति सोऽब्रवीत् ।। ३१ ।। अपि सर्षपमात्राणि, परच्छिद्राणि पश्यसि ! । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ? ।। ३२ ।। द्रष्टुं स्वदोषान् लोकानां, नैकमप्यस्ति लोचनम् । सन्ति लोचनलक्षाणि, परदोषविलोकने ।। ३३ ।। विब्रुवन्निति दत्तोऽगात्ततो निजकुटीरकम् । तत्रस्थोऽपि च सूरीणां दोषानेवं व्यचिन्तयत् ।। ३४।। तस्मै निन्दाकारिणेऽपि, नाकुप्यन् सूरयस्तु ते । चुकोप किन्तु तद्भक्ता, पुराधिष्ठायिका सुरी ।। ३५ ।। ततस्तस्य कुशिष्यस्य, शिक्षायै विचकार सा । मध्यरात्रे नीरवृष्टिं, सूचीदुर्भेददुर्दिनाम् ।। ३६ ।। सकर्करोत्करं रेणु-निकरं खरवायुना । उत्क्षिप्योत्क्षिप्य चिक्षेप, तस्य चोपरि सा सुरी ।। ३७ ।। दत्तस्ततो भयभ्रान्त-स्वान्तो ध्वान्तावृतेक्षणः । अन्धान्धुक्षिप्तवत्पश्य-त्रपि नैक्षिष्ट किञ्चन ।। ३८ ।। वेपमानवपुः सोऽथ, भयव्याकुलया गिरा । क्व सन्ति पूज्या इत्युचैः, सूरिसिंहानशब्दयत् ।। ३९ ।। शब्देन तादृशा भीतं, तं ज्ञात्वेति गुरुर्जगौ । वत्सात्रागच्छ सोऽथाऽऽख्य- न वः पश्यामि तामसैः । । ४० ॥ ततस्तस्याङ्गुलीमेकामामृश्यादीदृशगुरुः । सा च दीपशिखेवो दिदीपे तत्प्रभावतः ।। ४१ ।। तदृष्ट्वा व्यमृशद्दत्तो, दोषदर्शी गुणेष्वपि । निशि प्रदीपमप्यस्म-गुरवो रक्षयन्त्यमी ।। ४२ ।। For Personal & Private Use Only परिषहनाम द्वितीय ॥७॥ मध्ययनम् LETOOTEDAGOGenes १११ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy