________________
||७||
Woh
उत्तराध्ययन
सूत्रम् ११०
परिषहनाम द्वितीयमध्ययनम्
कालदौःस्थ्यादटन्तोपि, नापुस्ते भक्ष्यमुत्तमम् । लेभिरे प्रान्तभैक्ष्यं तु, स्वल्पं स्वल्पं क्वचित् क्वचित् ।।१५।। ततो दत्तमुनिर्भक्ष्यं, तथाविधमनाप्नुवन् । कोपाविष्टो बभूवान्त-र्दुष्टश्चैवमचिन्तयत् ।।१६।। भ्रमयत्येष वृद्धो मां, प्रतिवेश्म निरर्थकम् । सश्रद्धश्राद्धगेहानि, न दर्शयति मे पुनः ! ।।१७।। सूरयोपि तदाकूतं, ज्ञात्वा कोपेङ्गितादिभिः । तत्तुष्टिकारिभिक्षार्थ-मिभ्यश्रेष्ठिगृहं ययुः ।।१८।। दुष्टरेवतिकासज्ञा-व्यन्तरीभिरुपद्रुतः । तस्य च श्रेष्ठिन: पुत्रो, रुदन्नासीदहर्निशम् ।।१९।। अगाञ्च रुदतस्तस्य, षण्मासी न तु केचन । उपायाः प्राभवंस्तत्र, मातापित्रादिकारिताः ।।२०।। गत्वा तस्य शिशो: पार्श्व, कृत्वा चप्पुटिकाध्वनिम् । वत्स ! मा रुदिहीत्यूचु-स्तदा सङ्गमसूरयः ।। २१।। तेषां तद्वाक्यमाकर्ण्य, रेवत्यो भयविह्वला: । आशु नेशुः शिशुरपि, न रुरोद ततः परम् ।। २२।। तद्वीक्ष्य मुदितः श्रेष्ठी, मोदकेस्तान्न्यमन्त्रयत् । हृद्या हि प्राप्यते भिक्षा, गुणैः परिचयेन वा ।। २३ ।। दत्तायाऽदापयश्चित्त-मोदकांस्तांश्च मोदकान् । सूरिमुख्याः पुनर्नक-मपि तं जगृहुः स्वयम् ।। २४ ।। भ्रमन्मया समं पूर्णा-ऽऽहारो मा खिद्यतामसौ ! । ध्यात्वेति वसतिं गन्तुं, व्यसृजन् गुरवोऽथ तम् ।। २५ ।। विशिष्टगृहमेकं मे, गुरवो दर्शयंश्चिरात् । मां विसृज्याथ यास्यन्ति, सौधान् श्रेष्ठतरान् स्वयम् ।। २६।। चिन्तयन्निति दत्तर्षि-र्जगामोपाश्रयं निजम् । स्वयं शठो हि सरल-मप्यन्यं मन्यते शठम् ।। २७।। आचार्यास्तु चिरं भ्रान्त्वा, गृहीत्वा प्रान्तभोजनम् । आययुः स्वाश्रयं द्वाव-प्याहारं च वितेनतुः ।। २८ ।।
||७||
Iell
16
||sil
llsil
Ifoll in Education International
For Personal & Private Use Only
www.jainelibrary.org