________________
उत्तराध्ययन
सूत्रम् १०९
ial परिषहनाम
द्वितीयमध्ययनम्
उत्सर्गञ्चापवादञ्च, विदन्तस्ते यथास्थितम् । क्षीणजङ्घाबलास्तस्थुः, पुरे कोल्लकिराभिधे ।।२।। एकदा तत्र दुर्भिक्षे, सञ्जाते गच्छसंयुतम् । सिंहाचार्य स्वशिष्यं ते, दूरदेशे व्यहारयन् ।।३।। स्वयं तु तत्रैव पुरे, नव भागान् प्रकल्प्य ते । विजहुर्मासकल्पादि-विधिना विधिवेदिनः ।।४।। क्षीणजङ्घाबलत्वात्ते, तत्रस्था अपि न व्यधुः । प्रतिबन्धं पुरश्राद्ध-कुलशय्यासनादिषु ।।५।। प्रकृष्टांस्तद्गुणान् वीक्ष्य, पुराधिष्ठायिका सुरी । तेषु भक्तिं दधौ प्राज्या, भेजे तांश्च दिवानिशम् ।।६।। वर्षान्तरे च तत्रागात्, प्रहित: सिंहसूरिणा । सङ्गमाचार्यशुद्ध्यर्थं, तच्छिष्यो दत्तसज्ञकः ।।७।। यत्र स्थितैस्तैराचार्य-र्गच्छः प्रस्थापितोऽभवत् । ते तत्रैवालयेऽभूवं-स्तदायाताः पुनः क्रमात् ।।८।। तांश्च तत्र स्थितान् दृष्ट्वा, दुर्विदग्धशिरोमणिः । उत्सर्गकरुचिर्दत्त-साधुरेवं व्यचिन्तयत् ।।९।। तिष्ठन्तोऽत्रैव दृश्यन्ते, यदमी सूरयस्ततः । मन्ये न भावतोप्येते, मासकल्पादि कुर्वते ! ।।१०।। तदमीभिः सहैकत्र, ममोद्युक्तविहारिणः । स्थातुं न युक्तमित्यस्था-त्पार्श्वस्थे स कुटीरके ।।११।। पश्चाद्गत्वा सूरिपाचे, सोऽनमत्तानिरादरः । साधुसौख्यविहारादि-वार्ता तैरप्यपृच्छ्यत ।। १२ ।। दत्तोऽपि सकलं सूरि-पृष्टं प्रोचे यथातथम् । भिक्षाकाले च भिक्षार्थ, जगाम सह सूरिभिः ।।१३।। दत्तसाधुं सहादाय, सङ्गमस्थविरा अपि । निस्सङ्गा: पर्यटन्तिस्म, प्रोञ्चनीचकुलेषु ते ।। १४ ।।
||७||
ISM
116ll
1161
llell
llell Jell
१०९
lol Jain Education internal
16ll Holumiainelibrary.org
For Personal & Private Use Only