________________
॥७॥
Jer
उत्तराध्ययन
सूत्रम्
१०८
||sil
Jell
स्त्री परीषहश्चैकत्र वसतस्तादृशवशाजनसंसर्गवशान्मन्दसत्वस्य स्यादिति नैकत्र स्थाने स्थेयं, किन्तु ग्रामानुग्रामविहाररूपा चर्या कार्येति । परिषहनाम तत्परीषहमाह -
द्वितीय
मध्ययनम् एग एव चरे लाढे, अभिभूअ परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए ।।१८।।
व्याख्या - एक एव रागादिरहित एव चरेत्, अप्रतिबद्धविहारेण विहरेत्, लाढयति प्रासुकैषणीयाहारेण यापयति आत्मानमिति लाढः, - 61 अभिभूय निर्जित्य परीषहान् क्षुधादीन्, क्व चरेदित्याह-ग्रामे वा, नगरे वा, ‘अपिः' पूरणे, निगमे वा वणिग् निवासे, राजधान्यां वा राज्ञो निवासपुर्या, मडम्बाद्युपलक्षणञ्चैतदिति सूत्रार्थः ।।१८।।
पुनः प्रस्तुतमेवाह - ___असमाणो चरे भिक्खू, नेअ कुज्जा परिग्गहं । असंसत्तो गिहत्थेहिं, अणिकेओ परिव्वए ।।१९।।
व्याख्या - असमानोऽसदृशो गृहस्थः सहाश्रयमूर्छारहितत्वेन, अन्यतीर्थिकैश्च सहानियतविहारादिना चरेद्विहरेद्भिक्षुर्मुनिः, lell कथमेतत्स्यादित्याह-नैव कुर्यात्परिग्रह, ग्रामादिषु ममत्वरूपं, ममत्वाभावश्च कथं स्यादित्याह-असंसक्तोऽसम्बद्धो गृहस्थैहिभिः, अनिकेतो गृहरहित: परिव्रजेत् सर्वतो विहरेत्, गृहस्थसंसर्गादेरेव ग्रामादौ ममत्वं स्यादिति भाव इति सूत्रार्थः ।।१९।। आख्यानञ्चात्र, तथाहि -
अभवन् भुवनाभोग-भासनाम्भोजपाणयः । सूरयः सङ्गमाह्वाना, जिनाज्ञापालनोद्यताः ।।१।।
llell
Jell
lls llell
leir
JainEducationiman
For Personal Private Use Only