SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १०६ 6 परिषहनाम द्वितीयNell Mell मध्ययनम् ||6 मुनिः स्माह प्रसद्य त्वं, मां निर्वापय सङ्गमात् । वह्नौ शैत्यमिवाऽस्मासु, द्रविणं तु सुदुर्लभम् ! ।।१८१।। त्वदाज्ञाविवशश्चाहं, धनमप्यानये द्रुतम् । निवेदयसि चेन्मा, तत्प्राप्तिस्थानमुत्तमम् ।। १८२।। ततो बोधयितुं सा तं, प्रोचे नेपालभूपतिः । नव्यसाधोर्लक्षमूल्यं, प्रदत्ते रत्नकम्बलम् ।। १८३।। ततस्त्वं तत्र गत्वाऽऽशु, तं समानय मत्कृते । श्रुत्वेति सोऽप्यऽकालेऽपि, नेपालं प्रति चेलिवान् ।।१८४ ।। तत्र गत्वा धराधीशा-द्रत्नकम्बलमाप्य च । ववले स मुनिः सद्यो, वेश्यां ध्यायन्मनोन्तरे ।। १८५।। तत्र मार्गे स्थितानां च, दस्यूनां शकुनस्तदा । आयाति लक्ष्यमित्यूचे, तदज्ञासीच दस्युराट् ।। १८६।। किमायातीत्यपृच्छञ्च, वृक्षारूढं चरं ततः । सोऽप्याख्यद्भिक्षुमेवैकं, वीक्षे कमपि नाऽपरम् ।।१८७।। अथ तत्रागतं साधु, धृत्वा चौरा व्यलोकयन् । अपश्यंतश्च किमपि, द्रव्यं ते मुमुचुर्मुनिम् ।। १८८।। शकुन: पुनरित्याख्य-द्याति लक्षमिदं पुरः । ततो विधृत्य तं साधु-मभ्यधादिति चौरराट् ।।१८९।। वयं तवाभयं दद्यः, तथ्यं वद किमस्ति ? ते । ततो यतिर्जगौ यूयं, सत्यं शृणुत दस्यवः ! ।।१९०।। अस्ति क्षिप्तो वंशमध्ये, वेश्यार्थं रत्नकम्बलः । मत्पार्श्व इति तेनोक्ते-ऽमुचत्तं चौरराट् मुनिम् ।। १९१।। अथागत्य स कोशाये, रत्नकम्बलमार्पयत् । गृहनिर्धमने साऽपि, तं निचिक्षेप पङ्किले ।। १९२।। विषण्णो वीक्ष्य तत्साधु-रित्यूचे सुन्दरि ! त्वया । महामूल्योऽप्यसौ पङ्के, किं क्षिप्तो रत्नकम्बल: ? ।। १९३।। Ital ॥ell |ll Isl Illl lIGll lisil Hel led Gll ||6|| ilol Isil llsil For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy