________________
॥७॥
उत्तराध्ययन
सूत्रम् १०५
llell llell llell lell llell
Mon परिषहनाम 160 द्वितीय| मध्ययनम्
foll
16ll Hell
||oll Isll
llel
Isll
Isll ||ol
lel
वर्षाकालेऽथ सम्प्राप्ते, मानी सिंहगुहामुनिः । सम्भूतविजयाचार्यान्, प्रणम्येति व्यजिज्ञपत् ।।१६८।। सर्वदा षड्रसाहार-भोजी कोशानिकेतने । स्थास्याम्यहं चतुर्मासी, स्थूलभद्र इव प्रभो ! ।।१६९ ।। अयं हि स्थूलभद्रस्य, स्पर्द्धयाऽङ्गीकरोत्यदः । विमृश्येत्युपयोगं च, दत्त्वैवं सूरिरब्रवीत् ।।१७०।। वत्साभिग्रहमेनं मा-कार्षीर्दुष्करदुष्करम् । क्षमो हि स्थूलभद्रोऽमुं, निर्वोढुं नाऽपरः पुनः ! ।।१७१।। अपि स्वयम्भूरमण-स्तरीतुं शक्यते सुखम् । अयं त्वभिग्रहो धर्तुं, दुष्करेभ्योऽपि दुष्करः ! ।। १७२।। दुष्करोऽप्यस्ति नायं मे, क्व नु दुष्करदुष्करः ? । करिष्याम्येव तदमु-मित्यूचे स पुनर्गुरून् ।। १७३ ।। अथोचे सूरिरेतस्मा-दभिग्रहकदाग्रहात् । वत्स ! ते भाविनी लाभ-मिच्छतो मूलविच्युतिः ! ।। १७४ ।। एनामपि गुरोर्वाचं, मुमुक्षुरवमत्य सः । वीरंमन्यो ययौ कोशा-सदनं मदनाश्रयम् ! ।।१७५।। स्पर्धया स्थूलभद्रस्य, नूनमागादयं मुनि : । कोशाऽपि तं विलोक्येति, दध्यौ दक्षा नमञ्च तम् ।। १७६।। स्थित्यर्थं प्रार्थयामास, स साधुश्चित्रशालिकाम् । कोशापि तां ददौ सोऽपि, सोत्सेकस्तां प्रविष्टवान् ।। १७७।। बुभुजे च तया दत्त-माहारं षड्रसाञ्चितम् । अथ कोशाऽपि तत्रागा-न्मध्याह्न तं परीक्षितुम् ।।१७८ ।। मृगाक्षीं तां च स प्रेक्ष्य, क्षणात्क्षोभमुपागतः । मदनावेशविवशः, संवेशनमयाचत ।। १७९।। तत: कोशा तमित्यूचे, स्वामिन् ! पण्याङ्गना वयम् ! । स्वीकुर्मः शक्रमपि नो, धनदानं विना कृतम् ! ।।१८०।।
lish lel
||ll
|| foll
llslil 16 llsil
ilGll
||SH
Isl
||
||७|| ill
१०५
lol
llroll
lel
Ill
||७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org