________________
Isil
उत्तराध्ययन
सूत्रम् १०४
||all
परिषहनाम द्वितीयमध्ययनम्
||Gl Illl
ला
Gll lall
Gll
Isl
llol
इति श्रुत्वाऽपि स मुनि-र्न चुक्षोभ मनागपि । बह्वीभिरतिवात्याभिः, सुमेरुः किमु कम्पते ? ।।१५५।। इत्थं तत्क्षोभनोपाया-स्तया नित्यं कृता अपि । अभवन् विफलास्तत्र, कुलिशे परशस्त्रवत् ।। १५६।। एवं तस्येन्द्रियजय-प्रकर्ष वीक्ष्य विस्मिता । त्यक्तसम्भोगकामा सा, तं प्रणम्यैवमब्रवीत् ।। १५७।। यदज्ञानात्त्वया साकं, प्राग्वद्न्तुमना अहम् । अकार्षं क्षोभनोपायान्, तदागस्त्वं सहस्व मे ।। १५८।। स्थूलभद्रस्ततस्तस्यै, श्राद्धधर्ममभाषत । प्रबुद्धा साऽपि तं धर्म, स्वीकृत्याभ्यग्रहीदिति ।। १५९।। विश्राणयति मां यस्मे, तुष्टो नन्दमहीपतिः । तं विहायाऽपरे माः, सर्वेऽपि मम बान्धवाः ।।१६०।। अथ प्रान्ते चतुर्मास्या-स्तीर्णस्वस्वप्रतिश्रवाः । ते त्रयो मुनयो जग्मुः, क्रमात्स्वगुरुसनिधौ ।। १६१।। तत्राऽऽयान्तं सिंहगुहा-महर्षि किञ्चिदुत्थितः । गुरुर्जगौ स्वागतं ते, वत्स ! दुष्करकारक ! ।। १६२।। अन्यावप्येवमेव द्वौ, प्रोचे सूरिः समागतौ । स्थूलभद्रोऽप्यऽथाऽऽयासी-त्सन्तीर्णाभिग्रहार्णवः ।। १६३ ।। तञ्चाऽऽयान्तं समुत्थाय, स्माह सूरिः ससम्भ्रमम् । दुष्करदुष्करकारिन् !, स्वागतं ते तपोनिधे । ।। १६४ ।। सामर्षास्तन्निशम्येति, दध्युस्ते यतयस्त्रयः । गुरवो मन्त्रिपुत्रत्वा-देवमामन्त्रयन्त्यमुम् ! ।।१६५ ।। नित्यं षड्समाहारं, भुक्त्वा तत्र स्थितोऽप्यऽसौ । गुरुभिः कथ्यते साधुः, कृतदुष्करदुष्करः ! ।।१६६। वयमप्यैषदब्दे त-लास्यामोऽमुमभिग्रहम् । ध्यायन्त इति ते मासान्, कष्टादष्टाऽत्यवाहयन् ! ।।१६७।।
lol ||७|| ||coll
Ifoll
all llall
Moh
foll
||
||slil
llel
Iell Isil Poll Isll
lel lel
Isil
Jel
lisil
Isil
Isil
For Personal Private Use Only