________________
el
ला
उत्तराध्ययन-
सूत्रम् १०३
liel
परिषहनाम द्वितीयमध्ययनम्
lol
lell ell
lei
lifoll llol
Iroll llel Isil ||sill lloll lioll lall Ioll
Isl
कटाक्षेर्लक्षयन्ती तं, मुनि स्मरशरोपमैः । हावैर्मनोगतं भाव-मुद्वमंती मनोहरैः ।।१४२।। उत्तरीययथास्थान-स्थापनव्याजतो मुहुः । व्यञ्जयन्ती स्तनौ स्तब्धौ, स्वसौन्दर्यमदादिव ।।१४३।। सल्लावण्यसुधापीन-त्रिवलीवल्लिमञ्जुलम् । दर्शयन्ती मध्यदेश-मङ्गमोटनपाटवात् ।। १४४ ।। रोमराजीवलयितां, गम्भीरां नाभिकूपिकाम् । प्रकाशयन्ती सृनीवी-बन्धोच्छ्वासनकैतवात् ।।१४५।। दग्धपूर्वं महेशेनो-जीवयन्ती मनोभवम् । पञ्चमध्वनिगीतेन, पीयूषद्रवबन्धुना ।।१४६।। वृता सखीगणेवेणु-वीणाद्यातोद्यवादकैः । सा साधोः पुरतश्चक्रे, नाट्यं विश्वैकमोहनम् ।।१४७।। (षड्भिः कुलकम्) तद्वीक्ष्याऽपि स्थूलभद्रो, धर्मध्यानं मुमोच न । ततः कोशा पुरस्तस्यो-पविश्येति गिरं जगी ।।१४८।। स्वामिस्तव वियोगेन, तीव्रदुःखौघदायिना । अभून्मे दिनमेकैकं, दिव्यसंवत्सरोपमम् ।। १४९।। सोदरं वडवावढे-मन्ये त्वद्विरहं विभो ! । यदयं नेत्रनीरोघं, पायं पायमवर्धत ।।१५०।। तन्मां निर्वापय स्वाङ्ग-परिष्वङ्गसुधारसैः । त्वद्विश्लेषज्वलज्वाला-जिह्वज्वालाकरालिताम् ।।१५१।। सम्भोगकलहोत्पन्न-मपि मद्विरहं भवान् । नासहिष्ट पुरा स्वामि-स्तत्प्रेम व गतं ? तव ।।१५२।। विचित्राश्लेषरुचिरा, यास्त्वया कामकेलयः । अनुभूता मया साकं, ताः किं ते विस्मृताः ? प्रभो ! ।। १५३।। विभो ! विधेहि करुणां, निजे हृदि निधेहि माम् । पिधेहि दुःखवदनं, देहि प्रतिवचो मम ।।१५४।।
lialll
lifoll
lifall
Jell llell liel foll lioll Isil Jisil I6I Jell Jell Jol
liholl Ioll Isll
Jell lein
lei
Je
Jitelll lisill llell leel
Isl
For Personal Private Use Only