________________
उत्तराध्ययन
सूत्रम
||6| ileपरिषहनाम
द्वितीयllsll ||6|| मध्ययनम् llell
Nsh lell ||6|| Isil
१०२
MON
ill
||6||
||al
Mel
कुर्वन् षड्रसमाहार-मकुर्वन् प्रबलं तपः । स्थास्याम्यहं चतुर्मासी, कोशावेश्यानिकेतने ।।१२९ ।। सूरिस्तमुपयोगेन, योग्यं ज्ञात्वाऽन्वमन्यत । सर्वेऽप्यऽङ्गीकृतस्थाना-न्यऽगमन्मुनयस्ततः ।। १३० ।। शान्तान् जितेन्द्रियान् घोर-तपोनिष्ठानिरीक्ष्य तान् । शान्तिं प्रापुस्त्रयोऽप्येते, सिंहसर्पारघट्टिकाः ।।१३१।। अथ श्रीस्थूलभद्रोऽपि, कोशासदनमासदत् । कोशाऽपि प्रमदोत्सर्पि-रोमहर्षा तमभ्यगात् ।।१३२।। अयं परीषहोद्विग्नो, भग्नः संयमवीवधात् । आगानूनं तदद्याऽपि, दैवं जागर्ति मामकम् ।। १३३।। चिन्तयन्तीति साऽवोच-द्वाचा पीयूषकुल्यया । स्वागतं भवतः स्वामिन् !, कामधिक्कारिरूप हे ! ।।१३४।। । अद्य चिन्तामणिलब्धः, फलितोऽद्य सुरद्रुमः । अद्य कामगवी प्राप्ता, नाथ ! त्वयि समागते ।।१३५।। अद्यान्तरायापगमात्, पुण्यं प्रादुरभून्मम । दिष्ट्या पीयूषवृष्ट्याभं, यत्प्राप्तं तव दर्शनम् ।। १३६ ।। अथ प्रसद्य सद्यो मां, समादिश करोमि किम् ? । सर्वमेतत्तवैवास्ति, वित्तं चित्तं वपुगृहम् ।। १३७ ।। ततः श्रीस्थूलभद्रर्षि-भगवानेवमब्रवीत् । चित्रशालामिमां देहि, स्थातुं मासचतुष्टयम् ।। १३८ ।। गृह्यतामिति साऽप्युक्त्वा, सजयित्वा च तां ददौ । भगवान् स्थूलभद्रोऽपि, तस्थौ तत्र समाहितः ।। १३९।। कोशादत्तं षड्रसाढ्य-माहारमुपभुज्य च । प्रणिधानं दधौ साधुः, साधुधर्माब्जषट्पदः ।। १४०।। रूपलावण्यकोशोऽथ, कोशा कौशलशेवधिः । शृङ्गारागारशृङ्गार-धराऽगान्मुनिसन्निधौ ।।१४१।।
Isl
WOM
llell
|| ||61 ||ll ||61
NEN
||sil
llel
||
|ls
Jel
Isll
Join Education in
Isll Hellww.jainelibrary.org
For Personal & Private Use Only