SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् १०१ SSSSSSEL Jain Education Intell किमेष मद्यं पिबती-त्यपृच्छत्तं ततो नृपः । इदं श्वो दर्शयिष्यामीत्युवाच श्रीयकोऽपि हि ।। ११६ ।। द्वितीये चाह्नि सभ्यानां, राज्ञश्च श्रीयकः सुधीः । एकैकमार्पयत्पद्यं, शिक्षितेनाऽनुजीविना । । ११७ । । उग्रप्रत्यग्रमदन- फलनिः स्यन्दभावितम् । पापस्यादापयत्पाथो-रुहं वररुचेः पुनः । । ११८ । । नृपाद्यस्तानि पद्मानि घ्रायं घ्रायमवर्णयन् । ततो वररुचिः स्वीय-मप्यजिघ्रत् पयोरुहम् ।। ११९ । । सुरां स चन्द्रहासाख्यां, निशापीतां ततोवमत् । तद्वीक्ष्य भत्सितः सभ्यैः सभाया निर्जगाम च ।। १२० ।। स स्वनिन्दापनोदाय, प्रायश्चित्तचिकीस्ततः । इत्यपृच्छत् द्विजान् किं हि मद्यपानाघघातकम् ? ।। १२१ । । तापितत्रपुणः पानं, मदिरापानपापहृत् । तैरित्युक्ते सोऽपि सद्य स्तन्निपीय व्यपद्यत ।। १२२ । । इतश्च स्थूलभद्रोऽपि सम्भूतविजयप्रभून् । सेवमानः श्रुताम्भोधेः, पारं प्राप क्रमात्सुधीः ।। १२३ ।। सम्भूतविजयाचार्यान्, प्रणम्य मुनयस्त्रयः । वर्षाकालेऽन्यदाऽऽयाते, चक्रुरेवमभिग्रहान् ।। १२४ ।। स्थित्वा सिंहगुहाद्वारे, चतुर्मासीमुपोषितः । कायोत्सर्गं करिष्यामीत्याद्यश्चक्रे प्रतिश्रवम् ।। १२५ । दृग्विषाशीविषबिल-द्वारे स्थास्याम्युपोषितः । चतुर्मासीं कृतोत्सर्गो, द्वितीयोऽभ्यग्रहीदिति । । १२६ । । स्थास्यामि कूपफलके, कृत्वोत्सर्गमुपोषितः । चतुर्मासीमहमिति, प्रतिपेदे तृतीयकः । । १२७ । । ज्ञात्वा तान् संयतान् योग्या - ननुमेने गुरुर्यदा । स्थूलभद्रस्तदोत्थाय, गुरूनेवं व्यजिज्ञपत् ।। १२८ ।। For Personal & Private Use Only || परिषहनाम द्वितीय||६|| मध्ययनम् తాతా తాతా ర १०१ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy