SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ler उत्तराध्ययन सूत्रम् ९८ ||७|| is परिषहनाम lol द्वितीय मध्ययनम् 16 foll le lol lol ||Gll lish llsill उवाच श्रीयकः स्वामिन् !, यदस्मिन् प्रणतेऽपि वः । नासीत्प्रसत्तिस्तत् ज्ञातो, मयाऽयं द्रोहकृत् प्रभोः ।। ७७ ।। स्वामिद्रोही च निग्राह्य, इत्ययं निहत: पिता । येन प्रभोरतुष्टिः स्या-त्तातेनाऽपि हि तेन किम् ? ।। ७८ ।। तच्छ्रुत्वा व्यमृशद्भूपो, यदीक्सेवकानपि । जनोऽन्यथाऽऽख्यत्सा नूनं, माया वररुचे कवेः ! ।। ७९।। यद्वा ममैव दोषोऽयं, यत्तदा न व्यचारयम् । अविमृश्यकरो यस्मा-दन्धादपि विशिष्यते ! ।।८।। ध्यात्वेत्याश्चासयद्भूपः, श्रीयकं प्रियभाषितैः । प्रेम्णा स्वयं वितेने च, शकटालोर्ध्वदेहिकम् ।। ८१।। ऊचे च श्रीयकं मन्त्रि-मुद्रेयं गृह्यतामिति । प्रणम्य श्रीयकोऽप्येव-मथ व्यज्ञपयन्नृपम् ।। ८२।। अस्ति श्रीस्थूलभद्राह्वः, कोशागेहे ममाग्रजः । तिष्ठतिस्तत्र तस्याद्य, जज्ञे द्वादशवत्सरी ।। ८३ ।। तस्यासौ दीयतां मुद्रा, श्रुत्वेत्याहूय तं नृपः । जगाद मन्त्रिमुद्रेय-मस्माकं गृह्यतामिति ।। ८४।। विचार्येदं करिष्यामि-त्युक्ते तेन नृपोऽवदत् । यद्विचार्यं तदद्यैव, विचारय महाशय ! ।। ८५।। अशोकवनिकां गत्वा, सोऽप्येवं व्यमृशत्ततः । नियोगिनां राजकार्य-व्यग्राणां व सुखं भवेत् ? ।। ८६।। नियोगी दुःस्थवत्काले-ऽप्यनुते नहि भोजनम् । अधमर्ण इव क्वापि, नेष्टे निद्रातुमप्यसौ ! ।। ८७।। राज्यचिन्ताकुलः स्त्रीश्च, स स्मर्तुमपि न प्रभुः । क्वाऽसौ क्षमोऽनुभवितुं, गीतनाट्यादिकं पुन: ? ।। ८८।। सत्यप्येवं स्वामिभक्तः, स्वामिकृत्यं विधीयते । नोपद्रवेयुः पिशुना-श्चेनिष्कारणवैरिणः ।। ८९।। foll fol Isll lel Ifoll || lIsl || lol lal lall llol Isl ||61 || in Education n all ational For Personal & Private Use Only Indurmininelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy