SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९४ परिषहनाम द्वितीयमध्ययनम् Isl NON Isl शकटालस्ततो दध्यौ, दत्त्वाऽस्मै धनमन्वहम् । कोशं निष्ठापयत्येष, नृपो निष्कारणं किमु ? ।।२५।। ध्यात्वेति नन्दभूपाल-मवादीदिति धीसखः । स्वामिन् ! किमस्मै भट्टाय, प्रत्यहं दीयते धनम् ।।२६।। राजा जगाद काव्यानि, वर्णितानि त्वयाऽस्य यत् । ततोऽस्मै दीयते नोचे-त्पूर्वं नाऽदामहं कथम् ? ।।२७।। अमात्यः स्माह वृत्तानि, लौकिकानि पठत्ययम् । तानि प्राशंसिषमहं, ततो भूपतिरित्यवक् ।।२८।। किं पुराणानि काव्यानि, पठत्येष पुरो मम ? । उवाच सचिवः सन्ति, जीर्णान्येतानि निश्चितम ।। २९।। यद्यत्र प्रत्ययो न स्या-त्तदा सप्ताऽपि मत्सुताः । तदुक्तान्येव काव्यानि, पठिष्यन्ति प्रभोः पुरः ।।३०।। तनिशम्याऽथ साश्चर्यो, नृपो जवनिकान्तरे । सप्ताऽपि मन्त्रिपुत्रीस्ताः, समाहूय न्यवीविशत् ।।३१।। अथाऽऽगतो वररुचिः, काव्यस्तावद्भिरुत्तमैः । तुष्टाव क्ष्मापतिं क्षिप्रं, तानि यक्षाऽप्यधारयत् ।। ३२।। राजादेशात्सभामेत्य, तथैव कथयञ्च सा । एवं वारद्वयं श्रुत्वा, यक्षदत्ताऽपि तान्यऽवक् ।।३३।। सर्वा अप्येवमूचुस्ता-स्तानि राज्ञोऽग्रतः क्रमात् । ततो वररुचे राजा, रुष्टो दानमवारयत् ।।३४।। गङ्गास्रोतोजले यन्त्रं, चक्रे वररुचिस्ततः । अष्टाग्रशतदीनार-ग्रन्थिकां तत्र च न्यधात् ।। ३५ ।। प्रातश्च जाह्नवीं स्तुत्वा-ऽध्रिणा यन्त्रमचीचलत् । दीनारग्रन्थिरुत्प्लत्य, न्यपतत्तत्करे तदा ।। ३६ ।। लोकस्तत्प्रत्यहं प्रेक्ष्य, विस्मित: प्रोचिवानिति । अहो ! गङ्गापि दीनारा-नस्मै दत्ते स्तुता सती ।।३७।। Nell ||sil liel isil Ioll Poll NOM Nell Isl www.jainelibrary.org in Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy