SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 1191 IIS || उत्तराध्ययन सूत्रम् sil 116ll परिषहनाम is द्वितीयIsl lls मध्ययनम् lish lel lell Ioll Ioll lioll Isll llsll sil ||७| Isil यदभूनिविडं प्रेम, तयोरन्योन्यरक्तयोः । अपि वाचस्पतेर्वाचा, तद्भवेन्नैव गोचरः ।।१२।। दृढानुरागौ तौ भिन्न-देहावप्येकमानसौ । अन्योन्यं विरहं नाधि-सेहाते नखमांसवत् ।।१३।। कोशासक्त इति स्थूल-भद्रो नाऽगानिजं गृहम् । श्रीयकस्तु बभूवाङ्ग-रक्षको नन्दभूभुजः ।।१४।। इतश्च नन्दनृपति, नाम्ना वररुचिः कविः । नव्यैरष्टोत्तरशत-काव्यैरन्वहमस्तवीत् ।।१५।।। तानि श्रुत्वा नृपस्तुष्टो, मन्त्रिवक्त्रं व्यलोकत । स तु मिथ्यामतेस्तस्य, प्रशंसां नाऽकरोत्कवेः ।।१६।। ततः पृथ्वीपतिस्तस्मै, भट्टायाऽदान किञ्चन । भट्टोऽपि धीसखाधीनं, विवेद नृपतिं तदा ।।१७।। लोकोक्तया सचिवं तं च, विज्ञाय गृहिणीवशम् । भेजे लक्ष्मीवती स्वार्थ-सिद्ध्यै वररुचिर्द्विजः ।।१८।। तां तुष्टां स्तुतिभिश्चैवं, ययाचे स महाकविः । मत्काव्यं त्वद्गिरा राज्ञः, पुरो मन्त्री प्रशंसतु ।।१९।। दाक्षिण्येनैव दक्षापि, तद्वाचं तां प्रपद्य सा । उवाच मन्त्रिणे सोऽपि, तदाकाऽब्रवीदिति ।।२०।। सम्यग्दृशो न युक्तं मे, तत्काव्यानां प्रशंसनम् । किन्तु त्वदाग्रहाधीनः, करिष्ये तदपि प्रिये ! ।। २१।। प्रतिपद्येत्यगाद्भूप-सभा सचिवपुङ्गवः । तत्रायातः स भट्टोऽपि, नृपं तुष्टाव पूर्ववत् ।। २२।।। स्तुतिप्रान्ते च भूपेना-ऽमात्यवक्त्रे विलोकिते । अहो ! सूक्तानि काव्यानि, प्राशंसीदिति धीसखः ।। २३ ।। नृपोऽथ तस्मै दीनारा-नष्टोत्तरशतं ददौ । इत्थं तावद्धनं तस्मै, भूपोऽदात् प्रतिवासरम् ।। २४ ।। ||sl ||७|| Isil Isil lil Isll Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy