SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Isll oll उत्तराध्ययन- सूत्रम् ९० 6 परिषहनाम || द्वितीय6 मध्ययनम् ||sil lisil तस्मादस्मादधन्योऽन्यो, न दृष्टः कोऽपि भूतले । इत्यूचानं च तं साधु-मेवं देवोऽवदत्पुनः ।।१०६ ।। (युग्मम्) यदु ः संयमस्थाने, स्थापितोऽपि पुनः पुनः । पूज्यमानोऽपि लोकैश्च, ततोऽधः पतसि द्रुतम् ।।१०७।। तस्मात्त्वमप्यधन्योऽसि, रे दुर्बोधशिरोमणे ! । तदाऽऽकर्णाऽतिसम्भ्रान्तो-ऽर्हहत्तः पृष्टवानिति ।।१०८।। भूयो भूयो वदन्नेवं, कोऽसि ? त्वमिति मे वद । ततः सुरो मूकरूपं, दर्शयित्वेत्युवाच तम् ।। १०९।। शृणु भ्रात: ! सुरः श्रीमा-नासीस्त्वं पूर्वजन्मनि । तदा च भवता मह्य-मित्यभूत्प्रतिपादितम् ।।११०।। भवत्सहोदरत्वेनो-त्पन्नं च्युत्वा त्रिविष्टपात् । बोधयेजैनधर्म मां, त्वं प्राप्तोऽपि सुरालयम् ।।१११।। इति त्वदुक्तं च मया, तदासीत्स्वीकृतं यतः । त्वां विबोधयितुं देवी-भूतोऽप्यत्राऽऽगमं ततः ।। ११२।। स्वीकृत्याऽपि ततो धर्म, मा विमुञ्च मुहुर्मुहुः । निशम्येति मरुद्वाक्य-मर्हद्दत्तोऽब्रवीदिदम् ।।११३।। देवोऽहं प्राग्भवेऽभूवं, यत्तत्र प्रत्ययो नु कः ? । ततो देवस्तमादाय, ययौ वैताढ्यपर्वतम् ।। ११४ ।। कुण्डलद्वितयं तेन, प्रोक्तपूर्वं स निर्जरः । तन्नामाङ्कं समाकृष्य, पुष्करिण्या अदर्शयत् ।। ११५ ।। तद्वीक्ष्य स्वाभिधानाङ्क, जातिस्मरणमाप सः । लब्धबोधिस्ततो भाव-संयम प्रत्यपद्यत ।।११६ ।। स्थापयित्वेति तं धर्म, स्वस्थानं त्रिदशो ययौ । अर्हद्दत्तोऽपि तदनु-सेहेऽरतिपरीषहम् ।।११७ ।। fell ||७ 18 llell 16ll foll sil Jain Education International life.ll www.jainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy