________________
उत्तराध्ययन
सूत्रम् ८७
161 || ||sil
foll Mo
परिषहनाम द्वितीयमध्ययनम्
fol
||61 ||७|| ||61
16ll
||oll
Nell
||Gl
Noi
fel
Ioll
||७||
lol
isi ||61 ||oll || IIoll ||sl
सम्पूर्णदोहदा साऽथ, समये सुषुवे सुतम् । तस्याऽर्हद्दत्त इत्याऽऽह्वा, पितरौ चक्रतुर्मुदा ।।७।। ततः स मूकस्तं बाल-सोदरं लालयन् स्वयम् । धर्माभ्यासकृते चैत्यो-पाश्रयेष्वनयत्सदा ।।७१।। मूनीन् वन्दयितुं मूको, नीचैश्चक्रे च तं बलात् । स तु वीक्ष्य मुनीनु-ररोदीन त्ववन्दत ।। ७२।। नीतोप्युपाश्रये तेन, मोदकाद्यैः प्रलोभ्य स: । यतिदर्शनतोऽनश्यत्, 'करभादिव सैरिभः ।।७३।। मूकेनोक्तोऽपि बहुधा, साधूनां गन्धमप्यसौ । न सेहे कुग्रहग्रस्त, इव मन्त्रितगुग्गुलोः ।।७४।। परिश्रान्तस्ततो मूकः, प्राव्राजीत्साधुसन्निधौ । प्रपाल्य संयम स्वर्ग, गतः प्रायुत चाऽवधिम् ।।७५।। सानुजं तमपश्यञ्च, परिणीतचतुष्प्रियम् । तत्पूर्वभववाक्यं चा-स्मार्षीत्स्वीकृतमात्मना ।।७६।। दुर्बोधस्य ततस्तस्य, प्रतिबोधाय सोऽमरः । पाथः पूर्णदृतिप्रायं, प्रोञ्चैश्चक्रे जलोदरम् ।।७७।। उत्थातुमपि तद्धारा-दर्हद्दत्तः शशाक न । जहुवैद्याश्च सर्वेऽपि, तं चिकित्सितुमक्षमाः ।।७८।। सद्यः समग्ररोगान्तं, करोमीत्युचकैर्वदन् । ततोऽभ्रमत्पुरे तत्र, स देवो वैद्यरूपभृत् ।। ७९।। अर्हहत्तोऽथ तं वीक्ष्य, सद्यः स्माह कृताञ्जलिः । नीरुजं कुरु मां वैद्य !, व्यपनीय जलोदरम् ।।८।। निजगादाऽगदङ्कारो, गदोऽसाध्योऽयमस्ति ते । तथापि शमयाम्येन-मुपायैर्विविधैरहम् ।। ८१।। १. उष्ट्रान्महिष इव ।।
foll
l/ell
||oll liGl
८७
IGll
||
Non
l6I
||७॥ ||Gl
|GI
WoI
in Education International
For Personal & Private Use Only
www.jainelibrary.org