SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् lisll परिषहनाम द्वितीय| ||७|| मध्ययनम् || Iol Mel llsil धर्मावाप्तिश्च ते मूका-द्भाविनीति निशम्य सः । जिनं प्रणम्य कौशाम्ब्या, मूकोपान्तमगात्सुरः ।।५७।। दत्वा तस्मै बहुद्रव्यं, तमित्यूचे च सोऽमरः । अहं त्वन्मातुरुत्पत्स्ये, गर्भे स्वर्गात्परिच्युतः ।।५८।। अकालेऽपि तदा तस्याः, भावी माकन्ददोहदः । सदाफलाम्रस्तद्धेतो-रोपितोऽस्ति मया गिरौ ।। ५९।। आम्राणि याचते सा च, यदा तद्दोहदाकुला । अक्षराणि पुरस्तस्या-स्त्वमेतानि लिखेस्तदा ।।६०।। गर्भस्थमङ्गजमिमं, मातर्मह्यं ददासि चेत् । ददे तदानीमानीय, सहकारफलानि ते ।।६१।। इदं तस्यां प्रपन्नायां, समानीय ततो गिरेः । फलानि तस्य चूतस्य, तस्यै दद्या महामते ! ।।२।। मां च जातं स्वसात्कृत्वा, जैन धर्म विबोधयेः । न पुनस्त्वमुपेक्षेथा, देवभूयं गतोऽपि माम् ।। ६३ ।। किञ्च वैताढ्यनित्याह-चैत्यपुष्करिणीजले । न्यस्तमस्ति स्वनामावं, कुण्डलद्वितयं मया ।। ६४।। बहूपायैरनुत्पन्न-प्रतिबोधस्य मे पुनः । तदर्शनीयं भवता, स्वर्गलोकमुपेयुषा ।। ६५ ।। इति तद्वचने तेन, मूकेनाऽङ्गीकृते सति । पुरोहितसुतः स्वर्गी, स्वस्थ: स्वस्थानमासदत् ।।६६।। स चान्यदा दिवश्युत्वा, मूकाम्बाकुक्षिमाययौ । तस्याश्चाभूदकालेऽपि, तदाम्रफलदोहदः ।।६७।। तं ज्ञात्वेत्यलिखन्मूक-स्तदने स्मृतदेवगी: । चेन्मे गर्भममुं दत्से, तदाऽऽम्राणि समानये ।। ६८।। तद्वचः प्रतिपन्नाया-स्तस्या देवोक्तपर्वतात् । आनीयाऽऽम्राणि मूकोऽपि, तं दोहदमपूरयत् ।। ६९।। ||sil 16 Isll Nell 116|| GA EM Isl ||sil Mol Isll llell Isil liell Ideall Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy