SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् परिषहनाम द्वितीयमध्ययनम् ते प्रोचिरे सर्वमस्ति, भव्यं पूज्यप्रसादतः । राट्पुरोधःसुतौ किन्तु, तत्रोद्वैजयतो यतीन् ।।६।। तच्छ्रुत्वा युवराजर्षिः, सोऽध्यासीदिति शुद्धधीः । अवन्तीनृपपुत्रो यः, स भ्रातृव्यो भवेन्मम ।।७।। असो साधूनवज्ञाय, संसारे मा भ्रमेदिति । आपृच्छ्य स्वगुरुन् शीघ्र-मुज्जयिन्यां जगाम सः ।।८।। आर्यराधान् प्रणम्याथ, तैनिषिद्धोऽपि स स्वयम् । ययौ भिक्षार्थमादाय, क्षुल्लकं गृहंदर्शकम् ।।९।। गच्छंश्च युवराजर्षिः, क्षुल्लकं तमदोऽवदत् । वेश्म दर्शय मे ताव-पसूनोर्मुनिद्विषः ।।१०।। नृपाङ्गजगृहं तस्या-ऽदीदृशत् क्षुल्लकोऽपि सः । प्राविशद्युवराजर्षि-रपि तत्र भयोज्झितः ।।११।। तदा च तत्र क्रीडन्ती, सुतौ राजपुरोधसोः । अभूतां सङ्गतावेक-राशौ पापग्रहाविव ।।१२।। दृष्ट्वा तं चाऽऽगतं राज-परिवारोऽब्रवीदिति । व्रजाऽन्यत्र मुने ! नो चेत्, त्वां कुमारौ हनिष्यतः ।।१३।। तदाकापि स पुरो, ययौ धैर्यनिधिर्मुनिः । धर्मलाभ इति प्रोग्चै-बढस्वरमुवाच च ।।१४।। अयं क्रीडनकप्रायो, यदिहागान्मुनिः स्वयम् । तदस्मद्भाग्ययोगेन, जातमद्याति शोभनम् ।।१५।। जल्पन्ताविति तौ राज-पुरोहितसुतौ शठौ । तां मुनेगिरमाकर्ण्य, तदभ्यर्णमुपेयतुः ।।१६।। (युग्मम्) अभ्यधत्तां च साधो ! त्वं, नर्तितुं बुध्यसे न वा ! सोऽवादीद्वेम्यऽहं नाट्यं, वाद्यं वादयतं युवाम् ।।१७।। आरेभाते ततस्तूर्य-ताडनं तौ यथातथा । वाद्यं वादयितुं किन्तु, नाऽज्ञाशिष्टां यथोचितम् ।।१८।। ||all ||७|| llsil lisa llol Iol Jan Education intentional For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy