________________
Well ||6ll
उत्तराध्ययन
सूत्रम्
|| ||Gll Is
परिषहनाम द्वितीयमध्ययनम्
lel
Iel
IGll
||७
||sl
||७ 61
Ill
lell
Isll ||Gll lelll
अतीव लज्जित: सोऽथ, परैरूचे शबं त्यजन् । उपसर्ग सहस्वाऽमुं, मा मुञ्च मृतकं करात् ।।१४१।। ततस्तस्याऽन्यमुनिना, मानोपेतान्यचीवरम् । बद्धं दवरकेणो-विधाय कटिपट्टवत् ।।१४२।। पश्यन्ति मां स्नुषा: पश्चा-दिति हीणोऽपि तं शबम् । स उवाहोपसर्गोऽसौ, जात इत्यवधारयन् ।।१४३।। परिष्ठाप्य शबं पश्चा-दागतं वीक्ष्य तं गुरुः । प्रोचे तात ! किमद्येदं, वासः परिदधे ? लघु ।।१४४।। सोमः शशंस पुत्राऽद्यो-पसर्गोऽभूदुपस्थितः । गते च शाटके तेन, पर्यधां लघु चीवरम् ।।१४५।। ससम्भ्रमा इवाचार्या-स्तन्निशम्यैवमूचिरे । तातार्थमानयत भो-विनेयाः ! पृथु शाटकम् ।।१४६।। ततः सोमोऽब्रवीत्पुत्र !, लजनीयं बभूव यत् । तन्मेऽद्य सकलैर्दृष्ट-माकृष्टे कटिपट्टके ।। १४७।। तयोलपट्ट एवाऽस्तु, शाटकेन कृतं मम । इत्यूचानमनूचाना-स्तं तथैवाऽनुमेनिरे ।। १४८।। इत्युपायैश्चोलपट्टे, ग्राहितः सूरिपुङ्गवैः । सोमस्ततः परं सम्यक्, सेहेऽचेलपरीषहम् ।।१४९।। पश्चादचीवरपरीषहमेष यद्वत्, श्रीसोमदेवमुनिरित्यसहिष्ट सम्यक् । सह्यः परैरपि तथा श्रमणैः स नित्यं, श्रीमज्जिनेन्द्रवचनान्यनुवर्त्तमानैः ।। १५०।। इत्यचेलपरीषहे सोमदेवर्षिकथा ।।६।। अचेलस्य चाऽप्रतिबद्धविहारिणः शीतादिभिः पीड्यमानस्याऽरतिरपि स्यादिति तत्परीषहमाह -
lol
Isil llel Isil llsil
1G
Jell ||sil 116ll
116ll
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org