SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ७९ TTLETTES Jain Education International इत्थं छत्रादिके तेन त्यक्ते बालाः पुनर्जगुः । न शाटकोपसंव्यानमेनं वन्दामहे मुनिम् ।। १२८ । । सोमदेवस्तदाकर्ण्य, जजल्पाऽनल्पकोपभाक् । रे ! मा नमत मां यूयं, समं पितृपितामहैः ।। १२९ ।। येऽन्ये नमन्ति तैरेव सन्तुष्टिर्मे भविष्यति । । कटीपट्टकमेनं तु न त्यक्ष्यामि ! भवद्गिरा ।। १३० ।। तदाकर्ण्य ययुर्बालाः, अन्यदा च महामुनिः । विहिताऽनशनः कोऽपि तत्र गच्छे व्यपद्यत ।। १३१ ।। तदा पितुः कटीपट्ट त्याजनाय जगी गुरुः । अस्य देहं वहति यस्तस्य लाभो भवेन्महान् ।। १३२ ।। ततस्तच्छिक्षिताः पूर्व-दीक्षिता भिक्षवः परे । उदतिष्ठस्तमुद्वोढुं तदा चेत्यऽब्रवीद्गुरुः ।। १३३ ।। यूयं यदुत्थिताः सर्वेऽप्यमुं लाभं जिघृक्षवः । तदस्मद्वन्धुवर्गोऽयं, निर्जरां लप्स्यते कथम् ? ।। १३४ ।। तदाकर्ण्य सकर्णोऽथ, सोमदेवमुनिर्जगौ । किमत्र प्राप्यते पुत्र ! निर्जरा भूयसीतरा ? ।। १३५ ।। उवाच सूरिः कार्येऽस्मि - निर्जरा जायते भृशम् । सोऽभ्यधादहमप्येनं, तद्वहिष्ये सहर्षिभिः ।। १३६ ।। गुरुर्जगौ बालकृतः, उपसर्गोऽत्र जायते । तं चेत्सहितुमीशिध्वे, वहनीयस्तदा ह्ययम् ।। १३७ ।। तं च चेन्न सहिष्यध्वे, तदा स्यात्सुन्दरं न नः । इति स्थिरीकृतः सोमो ऽवहत्तं सह साधुभिः ।। १३८ ।। तदा च तस्य पुरतो, गच्छत्सु बहुसाधुषु । तद्युत्सर्गार्थमेतासु, स्थितास्वार्यासु पृष्ठतः ।। १३९ ।। पूर्वसङ्केतिता बालाः, सोमदेवमुनेर्द्रुतम् । कटीपट्टकमाकृष्या -ऽऽदाय च त्वरितं ययुः ।। १४० ।। (युग्मम्) । For Personal & Private Use Only TOOT TO ATTOO రెరెరె ర్ టె రె యో యో వాచా చా చా చా చా చాల్ परिषहनाम द्वितीय मध्ययनम् ७९ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy