SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Isl 16| उत्तराध्ययनसूत्रम् ७८ परिषहनाम द्वितीयमध्ययनम् foll 11७1 ||sl ||sil lalll || दर्श दर्श सोमदेवं, ते चैवं प्रोचिरे मिथः । नाऽस्माभिर्वन्दनीयोऽयं, छत्रवान् स्थविरो मुनिः ।। ११५ ।। तच्छ्रुत्वा सोमदेवर्षी-रुष्टोऽभाषिष्ट तानिति । अरे ! मत्पुत्रपौत्रादीन्, वन्दध्वे बालकानपि ।। ११६ ।। मां तु वृद्धं गुरोस्तात-मपि नो नमथाऽर्भकाः ! । तत्किं मया परिव्रज्या, नोपात्ताऽद्यापि विद्यते ? ।।११७।। बाला: प्रोचुर्दीक्षितस्य, भवेच्छत्रादिकं कथम् । त्यक्तातपत्राः सर्वेऽपि, दृश्यन्ते साधवः खलु ! ।। ११८ ।। सोमोऽथ व्यमृशच्छावाः, अप्येवं शिक्षयन्ति माम् । साध्वाचारविरुद्धं त-च्छत्रमेतजहाम्यहम् ।। ११९।। विचिन्त्येति जिनान्नत्वा-ऽऽ गतान्सूरीनुवाच सः । उद्वेजकेन सर्वेषां, छत्रेणानेन मे कृतम् ।।१२०।। गुरुर्जगाद यद्येवं, तदा छत्रं विमुच्यताम् । प्रबले त्वातपे धार्यः, कल्पको मस्तकोपरि ।। १२१।। गुरौ गतेऽन्यदा क्वापि, बालास्तच्छिक्षिताः पुनः । तं विहायापरानेमु-स्तत्पृष्टाश्चैवमूचिरे ।। १२२ ।। कमण्डलुधरत्वाद्धि, न त्वां वन्दामहे वयम् । यत्कदापि यते: पार्श्वे, नाऽपश्याम कमण्डलुम् ।।१२३ ।। तच्छ्रुत्वा सूरिमापृच्छय, स प्राग्वत्कुण्डिकां जहौ । पात्रकेणैवाऽथ शौचं, कार्यं गुरुरपीत्यवक् ।।१२४ ।। पुनस्तथैव तं बाला, नाऽनमन् सूरिशिक्षिताः । अवन्दननिदानञ्च, पृष्टास्तेनेति तं जगुः ।। १२५।। यज्ञोपवीतवन्तं नो, मुनिं मन्यामहे वयम् । ततः सोमः सुतं पृष्ट्वो-पवीतमपि मुक्तवान् ।। १२६ ।। तन्मोक्षणक्षणे त्वेवं, प्रोचुः श्रीआर्यरक्षिताः । एतन्मुञ्चत कोह्यस्मान्, विप्रानो वेत्त्यदो विना ? ।। १२७।। fol llol lol ||Gl Wall Mall Moil Isl 16ll llo in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy