________________
Io
उत्तराध्ययनसूत्रम् ७७
ion परिषहनाम leil
द्वितीयNell lal मध्ययनम llel
FEEEEER
कथं पुत्रीस्नुषादीनां, पुरो नग्न इवाऽन्वहम् । तिष्ठामीति ह्रिया सोम-देवो न प्राव्रजत्पुनः ।।१०२।। किन्तु स्वजनपुत्रादि-स्नेहपाशनियन्त्रितः । शश्वत्तत्पार्श्व एवास्था-त्र त्वन्यत्र जगाम सः ।।१०३।। तञ्चार्यरक्षिताचार्याः, प्रोचुरेवं मुहुर्मुहुः । तात ! यूयं परिव्रज्य, फलं गृह्णीत जन्मनः ।।१०४।। यज्ञसूत्रपदत्राण-छत्रशाटककुण्डिकाः । चेन्मेऽनुमन्यसे तर्हि, प्रव्रजामीति सोऽप्यऽवक् ।।१०५।। यथाकथञ्चिदृद्धोऽयं, तार्य एवेति चिन्तयन् । सूरिस्तदुररीकृत्य, सोमदेवमदीक्षयत् ।। १०६ ।। करणं चरणं चानु-वृत्तिमेव वितन्वता । ग्राहणीयो मया तातो, ध्यात्वेति स्माह तं गुरुः ।। १०७।। सर्वेऽमी मुनयश्चोल-पढें परिदधत्यमी । स्थविरत्वात्तु युष्माकं, शाटकोऽप्यनुमन्यते ! ।।१०८।। छत्रादिकं पुनर्नेत-दात्मनां बहु शोभते ! । निशम्येति वचः सूरेः, सोमदेवमुनिर्जगी ।। १०९।। गन्तुं शक्नोम्यहं नैव, पुत्र ! छत्रं विनाऽऽतपे । विण्मूत्रोत्सर्जने शौचं, कथं स्यात्करकं विना ! ।। ११०।। त्यजामि यज्ञसूत्रं च, विप्रत्वावेदकं कथम् । पीडा च स्यात्कण्टकैर्म, विनोपानहमध्वनि ।।१११।। सूरिः स्माहाऽथ यद्येवं, तिष्ठत्वेतत्तदाऽखिलम् । भवद्भिस्त्यज्यतां किन्तु, सर्वोऽप्यऽन्यः परिग्रहः ।।११२।। ततः परिग्रहं सोऽन्य-मत्याक्षीदथ सूरयः । बालान् किञ्चिच्छिक्षयित्वा-ऽन्यदा नन्तुं जिनान् ययुः ।। ११३ ।। ततस्तच्छिक्षिता बालाः, सोमदेवतपस्विनम् । हित्वा क्षुल्लकपर्यन्तान्, सर्वसाधून ववन्दिरे ।।११४ ।।
||ll
leir
lall
foll
likell foll
IIII
Well lioil
sil Join Education international
161
lloll
For Personal Private Use Only