________________
उत्तराध्ययन
सूत्रम् ११७५
||61
llel
Ilall ||
||all खंधा य १ खंधदेसा य २ तप्पएसा ३ तहेव य । परमाणुणो अ बोधव्वा, रूविणो य चउब्विहा ।।१०।। 16 जीवाजीव
व्याख्या - स्कन्धाश्च पुद्गलोपचयापचयलक्षणाः स्तम्भादयः, स्कन्धदेशाश्च स्तम्भादिद्वितीयादिभागरूपाः, तेषां प्रदेशास्तत्प्रदेशाः ॥ll विभक्तिनाम loll ॥ स्तम्भादिसम्पृक्तनिरंशांशरूपास्तथैव चेति समुचये, परमाणवश्च निरंशद्रव्यरूपा बोद्धव्याः, रूपिणश्च रूपिणः पुनश्चतुर्विधाः ।।१०।। इह च षटत्रिंशदेशप्रदेशानां स्कन्धेष्वेवान्तर्भावात् स्कन्धाश्च परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदो, तयोश्च किं लक्षणमित्याह -
मध्ययनम् एगत्तेण पुहत्तेणं, खंधा य परमाणुणो । लोएगदेसे लोए अ, भइअव्वा ते उ खेत्तओ। इत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ।।११।।
व्याख्या - एकत्वेन पृथग्भूतद्व्यादिपरमाणुसङ्घाततो द्विप्रदेशिकादिलक्षणसमानपरिणतिस्वरूपेण, पृथक्त्वेन परमाण्वन्तरः सहासङ्घातरूपेण बृहत्स्कन्धेभ्यो विचटनात्मकेन वा स्कन्धाश्च परमाणवश्च लक्ष्यन्त इति शेषः । एतानेव क्षेत्रत आह - 'लोएगदेसे' इत्यादिIs लोकस्यैकदेशे लोके च भक्तव्या भजनया विज्ञेया: ते इति स्कन्धाः परमाणवश्च, तुः पूरणे, क्षेत्रतः । अत्र चाविशेषोक्तावपि
परमाणूनामेकप्रदेश एवावस्थानात् स्कन्धविषयैव भजना द्रष्टव्या । ते हि विचित्रपरिणामत्वेन बहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशे IS अवतिष्ठन्ते, अन्ये तु सङ्ख्येयेष्वेव प्रदेशेषु यावत्कोऽपि सकललोकेपि तथाविधाचित्तमहास्कन्धवत्ततो भजनीया इत्युच्यन्ते । 'इत्तोत्ति' इत I ॥ इति क्षेत्रप्ररूपणातोऽनन्तरं कालविभागं तु कालभेदं पुनस्तेषां स्कन्धादीनां वक्ष्ये चतुर्विधं साद्यनादिसपर्यवसितापर्यवसितभेदेनेति सूत्रार्थः । ॥ M॥ इदं च सूत्रं षट्पाद, प्रत्यन्तरेषु चान्त्यपादद्वयं न दृश्यतेऽपि ।।११।। प्रतिज्ञातमाह -
is ११७५ ilsil
Isl
lel
Ilcall
www.jainelibrary.org
in Education International
For Personal & Private Use Only