________________
Ill
उत्तराध्ययन
सूत्रम् १९७२
I| llsil Isl Ioll
जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम्
।। अथ जीवाजीवविभक्तिनाम षट्त्रिंशमध्ययनम् ।। ।। अर्हम् ।। उक्तं पञ्चत्रिंशमध्ययनमथ जीवाजीवविभक्तिसङ्गं षट्त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धोऽनन्तराध्ययने भिक्षुगुणाः उक्तास्ते च जीवाजीवस्वरूपपरिज्ञानादेवासेवितुं शक्या इति तज्ज्ञापनार्थमिदमारभ्यते इति सम्बन्धस्यास्येदमादिसूत्रम् -
जीवाजीवविभत्ति, सुणेह मे एगमणा इओ । जं जाणिऊण भिक्खू, सम्मं जयइ संजमे ।।१।।
व्याख्या - जीवाजीवानां विभक्तिस्तद्भेदादिदर्शनेन विभागेनावस्थापनंजीवाजीवविभक्तिस्तां शृणुत मे कथयतः इति शेषः, एकमनसः सन्तः, il अतोऽनन्तराध्ययनादनन्तरं, यां जीवाजीवविभक्तिं प्ररूपणाद्वारेणैव ज्ञात्वा भिक्षुः सम्यग् यतते प्रयत्नं कुरुते संयम इति सूत्रार्थः ।।१।। जीवाजीवविभक्तिप्रसङ्गादेव लोकालोकविभक्तिमाह -
जीवा चेव अजीवा य, एस लोए विआहिए । अजीवदेसे आगासे, अलोए से विआहिए ।।२।।
व्याख्या - जीवाश्चैव अजीवाश्च एष सर्वप्रसिद्धो लोको व्याख्यातोऽर्हदाद्यैः, अजीवदेश आकाशमलोकः स व्याख्यातो धर्मास्तिकायादिरहितस्याकाशस्यैवालोकत्वात् ।।२।। इह च जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैव स्यादिति तामाह -
दव्वओ खेत्तओ चेव, कालओ भावओ तहा । परूवणा तेसि भवे, जीवाणं अजीवाण य ।।३।। व्याख्या - द्रव्यत इदमियद्भेदं द्रव्यमिति, क्षेत्रतश्चैव इदमियति क्षेत्रे स्यादिति, कालत इदमियत्कालस्थितिकमिति, भावत इमेऽस्य
१९७२
lifoll
||sill
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org