________________
उत्तराध्ययनसूत्रम्
११५५
लेश्यानाम
॥ उपधिश्छद्म तेन चरत्यौपधिकः सर्वत्र व्याजतः प्रवृत्तिः, एकार्थिकानि वैतानि मिथ्यादृष्टिरनार्यश्च ।। २६ ।। 'उप्फालगत्ति' येन पर उत्प्रास्यते तदुत्प्रासकं, दुष्टं च रागादिदोषवद्यथा भवत्येवं वदनशील उत्प्रासकदुष्टवादी, चः समुच्चये । स्तेनचौर: चापि समुचये । मत्सरी परसम्पदोऽसासहिः ॥ चतुस्त्रिशशेषं प्राग्वत् ।। २६ ।।
मध्ययनम्
नीआवित्ती अचवले, अमाई अकुतूहले । विणीयविणए दंते, जोगवं उवहाणवं ।। २७ ।।
पियधम्मे दढधम्मे, वज्जभीरू हिएसए । एयजोगसमाउत्ते, तेउलेसं तु परिणमे ।। २८ । ।
व्याख्या – नीचैर्वृत्तिर्मनोवाक्कायैरनुत्सिक्तोऽचपलः, अमायी, अकुतूहल:, विनीतविनयः स्वभ्यस्तगुर्वाद्युचितप्रवृत्तिः, अत एव दान्तः, योगः स्वाध्यायादिव्यापारस्तद्वान्, उपधानवान् विहितशास्त्रोपचारः ।। २७ ।। 'पिय' इत्यादि तत्र 'वज्रभीरूत्ति' अवद्यभीरुहितैषको मुक्तिगवेषकः, शेषं ॥ प्राग्वत् ।। २८ ।
पयको हमाणे अ, मायालोभे अ पयणुए । पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ।। २९ । ।
तहा पयणुवाई य, उवसंते जिइंदिए । एयजोगसमाउत्ते, पम्हलेसं तु परिणमे ।। ३० ।।
व्याख्या - प्रतनुक्रोधमानः चः पूर्त्तो माया लोभश्च प्रतनुको यस्येति शेषः, अत एव प्रशान्तचित्तो दान्तात्मा 'तहा पयणु' इत्यादि - तथा प्रतनुवादी स्वल्पभाषकः उपशान्तोऽनुद्भटत्वेनोपशान्ताकारः, शेषं प्राग्वत् ।। ३० ।।
Jain Education International
For Personal & Private Use Only
OOOOOT
११५५
www.jninelibrary.org