________________
उत्तराध्ययन
सूत्रम् १९४५
नाम
कर्म 'संगत्ति' सगृह्णन्ति । कीदृशं सदित्याह- 'छद्दिसागयंति' षण्णां दिशां समाहारः षड्दिशं तत्र गतं स्थितं षड्दिशगतं, एतच द्वीन्द्रियादीनाश्रित्य कर्मप्रकृति॥ नियमेन व्याख्येयं एकेन्द्रियाणामन्यथापि सम्भवात् । यदागमः - ' . "एगेंदिए णं भंते! तेआकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं जाव छद्दिसिं करेइ ? गोयमा ! सिअ तिदिसिं सिअ चउदिसिं सिअ पंचदिसिं सिअ छद्दिसिं करेइ । बेइंदिअ तेइंदिअ चउरिंदिअ पंचिंदिआ निअमा छद्दिसिंति ।" त सङ्गृहीतं सत् केन सह कियत् कथं वा बद्धं स्यादित्याह - 'सव्वेसुवि पएसेसुत्ति' सर्वैरपि प्रदेशैरात्मसम्बन्धिभिः सर्वं ज्ञानावरणादि, नत्वन्यतरदेकमेव, सर्वेणेति गम्यत्वात् प्रकृतिस्थित्यादिना प्रकारेण । बद्धं क्षीरेणोदकवदात्मप्रदेशैः श्लिष्टं तदेव बद्धकम् ।। १८ ।।
॥ त्रयस्त्रिंश॥६॥ मध्ययनम्
कालमाह -
उदहिसरिसनामाणं, तीसई कोडिकोडिओ । उक्कोसिआ ठिई होई, अंतोमुहुत्तं जहण्णिआ ।। १९ । ।
आवरणिजाण दुहंपि, वेअणिज्ये तहेव य । अंतराए अ कम्मंमि, ठिई एसा विआहिआ ।। २० ।।
1.
Jain Education International
॥७॥
व्याख्या - उदधिना सदृशं नाम येषां तानि उदधिसदृशनामानि सागरोपमाणीत्यर्थः, तेषां त्रिंशत्कोटाकोट्य: 'उक्कोसिअत्ति' उत्कृष्टा भवति स्थितिः, अन्तर्मुहूर्त्त जघन्यैव जघन्यका ।। १९ । । केषामित्याह - 'आवरणिज्जाणत्ति' आवरणयोर्ज्ञानदर्शनविषयोर्द्वयोरपि, वेदनीये तथैव च, अन्तराये च कर्मणि स्थितिरेषा व्याख्याता । किञ्चेह वेदनीयस्यापि जघन्या स्थितिरन्तर्मुहूर्त्तमानैवोक्ताऽन्यत्र तु द्वादशमुहूर्त्तमाना सा ॥
For Personal & Private Use Only
१९४५
www.jninelibrary.org