SearchBrowseAboutContactDonate
Page Preview
Page 1184
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ११४२ ADDA SOTTO नवविधं वा कर्म नोकषायजं नोकषायवेदनीयमित्यर्थः, तत्र सप्तविधं हास्यादिषट्कं हास्यरत्यरतिभयशोकजुगुप्सारूपं वेदश्च सामान्यविवक्षया एक कर्मप्रकृतिएवेति । नवविधं तु तदेव षट्कं वेदत्रयसहितमिति ।। ११ । । नाम नेरइयतिरिक्खाउं, मणुस्साउं तहेव य । देवाउअं चउत्थं तु, आउकम्मं चउव्विहं ।। १२ ।। त्रयस्त्रिंशमध्ययनम् व्याख्या – 'नेरइअतिरिक्खाउंति' आयु:शब्दस्य प्रत्येकं योगान्नैरयिकायुस्तिर्यगायुः, शेषं व्यक्तम् ।। १२ ।। नामकम्मं तु दुविहं, सुहं असुहं च आहिअं । सुहस्स य बहू भेया, एमेव असुहस्सवि ।। १३ ।। व्याख्या - नामकर्म द्विविधं कथमित्याह शुभमशुभं च आख्यातं शुभस्य बहवो भेदा एवमेवाशुभस्यापि । तत्रोत्तरभेदैः शुभनाम्नोऽनन्तभेदत्वेपि मध्यमविवक्षया सप्तत्रिंशद्भेदा यथा नर १ देवगती २ पञ्चेन्द्रियजातिः ३ शरीरपञ्चकं ८ आद्यशरीरत्रयस्याङ्गोपाङ्गत्रयं ११ प्रशस्तं वर्णादिचतुष्कं १५ प्रथमं संस्थानं १६ संहननं च १७ मनुष्य १८ देवानुपूर्व्यो १९ अगुरुलघु २० पराघातं २१ उच्छ्वासं २२ आतपो २३ द्योतौ २४ प्रशस्तविहायोगतिः २५ त्रस २६ बादर २७ पर्याप्त २८ प्रत्येक २९ स्थिर ३० शुभ ३१ सुभग ३२ सुस्वरा ३३ देय ३४ यशांसि ३५ निर्माणं ३६ तीर्थकरनाम ३७ चेति । एताश्च शुभानुभावत्वाच्छुभाः । तथा अशुभनाम्नोपि मध्यमविवक्षया चतुस्त्रिंशद्भेदास्तथाहि नरक १ तिर्यग्गती २ एकेन्द्रियादिजातिचतुष्कं ६ प्रथमवर्जानि संहनानि पञ्च १९ संस्थानान्यपि प्रथमवर्जानि पञ्चैव १६ अप्रशस्तं वर्णादिचतुष्कं २० नरक २१ तिर्यगानुपूर्व्यो २२ उपघातः २३ अप्रशस्तविहायोगतिः २४ त्रसदशकविपर्यस्तं स्थावरदशकं ३४ । Jain Education International For Personal & Private Use Only ॥६॥ १९४२ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy