________________
II
उत्तराध्ययन
सूत्रम्
MER
११४०
15||
leir
lish lell
Gll
l मकारोऽलाक्षणिकः, चक्षुश्चाचक्षुश्चावधिश्च चक्षुरचक्षुरवधीति समाहारस्तस्य, दर्शने इति दर्शनशब्दः प्रत्येकं योज्यः, ततश्चक्षुर्दर्शने चक्षुषा कर्मप्रकृति6 रूपसामान्यग्रहणे । अचखूषीति नञः पर्युदासत्वाञ्चक्षुःसदृशानि शेषेन्द्रियमनांसि तदर्शने तेषां स्वस्वविषयसामान्यावबोधे । अवधिदर्शने ॥ ___ नाम ial अवधिना रूपिद्रव्याणां सामान्यग्रहणे । 'केवले अत्ति' केवलदर्शने च सर्वद्रव्यपर्यायाणां सामान्यज्ञाने आवरणं । एतच
त्रयस्त्रिंशचक्षुर्दर्शनादिविषयत्वाञ्चतुर्विधमत एवाह-एवमित्यनेन निद्रापञ्चविधत्वचक्षुर्दर्शनावरणादिचतुर्विधत्वलक्षणेन प्रकारेण तुः पूर्ती नवविकल्पं l
मध्ययनम् 6 नवभेदं ज्ञातव्यं दर्शनावरणम् ।।६।।
वेअणि पि अदुविहं, सायमसायं च आहि । सायस्स उ बहू भेआ, एमेवासायस्सवि ।।७।। ___व्याख्या - वेदनीयमपि द्विविधं, सातं सुखं शारीरं मानसं च, इहोपचारात्तनिमित्तं कर्माप्येवमुक्तं, असातं च तद्विपरीतं । 'सायस्स उत्ति' 8॥
सातस्यापि बहवो भेदाः, न केवलं ज्ञानदर्शनावरणयोरित्यपिशब्दार्थः, बहुभेदत्वं चास्य तद्धेतूनामनुकम्पादीनां बहुत्वात् । एवमेवेति-बहव 16 Mon एव भेदा असातस्यापि, दुःखशोकादीनां तद्धेतूनामपि बहुत्वादेवेति भावः ।।७।।
मोहणिजंपि दुविहं, दंसणे चरणे तहा । दसणे तिविहं वुत्तं, चरणे दुविहं भवे ।।८।।
व्याख्या - मोहनीयमपि द्विविधं वेदनीयवत्, वैविध्यमेवाह-दर्शने तत्त्वरुचिरूपे, चरणे चारित्रे, ततो दर्शनमोहनीयं चारित्रमोहनीयं चेत्यर्थः । 6 । तत्र दर्शने दर्शनविषयं मोहनीयं त्रिविधं उक्तं, चरणे चरणविषयं द्विविधं भवेत् ।।८।। दर्शनमोहनीयत्रैविध्यमाह -
११४०
foll Poll
||७||
Isil Ilsil lll Ill
||
ller
Wel
llll
NEW
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org