________________
HS प्रमादस्थान
उत्तराध्ययन
सूत्रम् ११३६
नाम द्वात्रिंशमध्ययनम्
प्राप्तप्रायत्वादनेन मुक्तेः क्षपयति ज्ञानावरणं क्षणेन, तथैव यत् दर्शनमावृणोति तत् दर्शनावरणमित्यर्थः, यञ्चान्तरायं दानादिविषयं विघ्नं प्रकरोति कर्मान्तरायाख्यमित्यर्थः ।। १०८।। यत्क्षयाञ्च के गुणमवाप्नोतीत्याह -
सव्वं तओ जाणइ पासई अ, अमोहणे होइ निरंतराए ।
अणासवे झाणसमाहिजुत्ते, आउक्खए मोक्खमुवेइ सुद्धे ।। १०९।। व्याख्या - सर्वं ततो ज्ञानावरणीयादिक्षयाजानाति विशेषरूपत्वेनावगच्छति, पश्यति च सामान्यरूपतया, तथाऽमोहनो मोहरहितो भवति, I तथा निरन्तरायः, अनाश्रवः कर्मबन्धहेतुरहितः, ध्यानं शुक्लध्यानं तेन समाधिः परमस्वाध्यायं ध्यानसमाधिस्तेन युक्तो ध्यानसमाधियुक्तः, आयुष: 8 उपलक्षणत्वात् नामगोत्रवेद्यानां च क्षय: आयुः क्षयस्तस्मिन् सति मोक्षमुपैति शुद्धो विगतकर्ममल इति सूत्रत्रयार्थः ।।१०९।। मोक्षगतश्च यादृशः स्यात्तदाह -
सो तस्स सव्वस्स दुहस्स मुक्को, जं बाहई सययं जंतुमे ।
दीहामयविप्पमुक्को पसत्थो, तो होइ अञ्चंतसुही कयत्थी ।।११०।। व्याख्या - स मोक्षं प्राप्तः तस्माजातिजरामरणादिरूपत्वेन प्रोक्तात् सर्वस्मात् दुःखात्-सर्वत्र सुब्यत्ययेन षष्ठी, मुक्तः पृथग्भूतो यत्कीदृशमित्याह-यहुःखं बाधते सततं जन्तुमेनं प्रत्यक्षं, दीर्घाणि स्थितितः प्रक्रमात् कर्माणि तान्यामया इव विविधबाधाविधायितया ।
११३६
iisi
in Ecotron
For Personal Private Use Only