SearchBrowseAboutContactDonate
Page Preview
Page 1177
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ११३५ नाम द्वात्रिंशमध्ययनम् IIsil 2 अमनोज्ञतां वा किन्तु रागद्वेषवत एव, स्वरूपेण हि रूपादयो नात्मनो मनोज्ञताममनोज्ञतां वा कर्तुं क्षमाः किन्तु रक्तेतरप्रतिपत्तृणामाशयवशादेव । कि यदुक्तमन्यैरपि - "परिव्राट्कामुकशुना-मेकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्य-मिति तिस्रो विकल्पनाः ।।१।।" ततो वीतरागद्वेषस्य नैवामी Is मनोज्ञताममनोज्ञतां वा कुर्युरिति, तदभावे च विषयसेवाक्रोशदानादिप्रयोजना-नुत्पत्ते वानर्थोत्पत्तिः स्यादिति सूत्रषट्कार्थः ।।१०६ ।। तदेवं ॥ रागद्वेषयोस्तदुपादानहेतोर्मोहस्य चोद्धरणोपायानुक्त्वोपसंहारमाह - Nel एवं ससंकप्पविकप्पणासु, संजयाए समयमुवट्ठिअस्स । अत्थे अ संकप्पयओ तओ से, पहीअए कामगुणेसु तण्हा ।।१०७।। व्याख्या - एवमुक्तनीत्या स्वस्यात्मनः सङ्कल्पा रागद्वेषमोहरूपा अध्यवसायास्तेषां विकल्पना: सकलदोषमूलत्वादिपरिभावनाः ||७|| का स्वसङ्कल्पविकल्पनास्तासु उपस्थितस्योद्यतस्य सञ्जायते समता माध्यस्थ्यमितियोगः । अर्थांश्चेन्द्रियार्थान् रूपादीन् सङ्कल्पयतश्चिन्तयतो यथा 5 नैते कर्मबन्धहेतवः किन्तु रागादय एवेति । यद्वा अर्थान् जीवादीन् चस्य भित्रक्रमत्वात् सङ्कल्पयतश्च शुभध्यानविषयतयाध्यवस्यतः, ततः इति कि समतायाः 'से' तस्य साधोः प्रहीयते कामगुणेषु तृष्णाभिलाषः ।।१०७।। ततः स किं करोतीत्याह - स वीअरागो कयसव्वकियो, खवेइ नाणावरणं खणेणं । तहेव जं दंसणमावरेइ, जं चतरायं पकरेइ कम्मं ।।१०८।। व्याख्या - स प्रहीणतृष्णो वीतरागो भवति, तृष्णा हि लोभस्तत्क्षये च क्षीणमोहत्वावाप्तिरिति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः llell Ill isill Mall sill ११३५ Jan Education international For Personal & Private Use Only www.b org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy