________________
उत्तराध्ययन
सूत्रम्
Is प्रमादस्थान
११३३
नाम द्वात्रिंश
मध्ययनम्
कप्पं न इच्छेज्ज सहायलिच्छू, पच्छाणुतावेण तवप्पभावं ।
एवं विआरे अमिअप्पयारे, आवजई इंदियचोरवस्से ।।१०४ ।। व्याख्या - कल्पते वैयावृत्त्यादिकार्याय समर्थो भवतीति कल्पो योग्यस्तमपेर्गम्यत्वात् कल्पमपि किं पुनरकल्पं शिष्यादिकं । नेच्छेत्सहायलिप्सुर्ममायं विश्रामणादिसाहाय्यं करिष्यतीत्यभिलाषुकः सन्, तथा पश्चादिति व्रताङ्गीकारादुत्तरकालं अनुतापः किमेतावत्कष्टं । - मयाङ्गीकृतमिति चिन्तारूप: पश्चादनुतापस्तेन हेतुना उपलक्षणत्वात् अन्यथा वा । तपः प्रभावमिहैवामर्षोषध्यादिलब्धिप्रार्थनेन परत्र भोगादि || निदानविधा नेच्छेदिति प्रक्रमः । किमेवं निवार्यते ? इत्याह-एवममुना प्रकारेण विकारान् दोषानमितप्रकारान् आपद्यते, इन्द्रियाणि चौरा इव ॐ धर्मधनापहरणादिन्द्रियचौरास्तद्वश्यः । उक्तविशेषणविशिष्टस्य हि कल्पतपःप्रभाववाञ्छादिनावश्यमिन्द्रियवशता स्यादिति, एवं च ब्रुिवतोऽयमाशयः-तदनुग्रहबुद्ध्या शिष्यं सङ्घादिकार्याय तपःप्रभावं च वाञ्छतोपि न दोषः । एतेन च रागस्य हेतुद्वयत्यागरूप उद्धरणोपाय
उक्तः, एवमन्येपि रागहेतवो हेयाः । ततः सिद्धं रागस्योद्धरणोपायानां तद्विपर्यये च दोषाणां कथनमिति ।।१०४ ।। उक्तमेवार्थ समर्थयितुं विकारेभ्यो दोषान्तरोत्पत्तिमाह -
Isll
Ish
Isl
ell llell
Del
११३३
Isl
Join E
cation International
For Personal & Private Use Only
www.jainelibrary.org