SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ||७|| || परिषहनाम 61 द्वितीय||61 6 मध्ययनम् Gll all 67 ७४ Isl well Ish llel llel llell एकत्रोपाश्रये वज्र-स्वामिना सह मा वसे: । किन्तु स्थित्वा परत्र त्वं, पठेस्तस्यान्तिके श्रुतम् ।।६४।। वसेद्वज्रेण सार्द्ध हि, यः सोपक्रमजीवितः । एकामपि निशां नूनं, तेन साकं म्रियेत सः ।।५।। तद्वचः प्रतिपद्याथ, तानिर्याम्य च सोमभूः । पुरीमगाद्वज्रयुतां, बहिस्तस्थौ च तां निशाम् ।। ६६ ।। तस्याः क्षपायाः प्रान्ते च, वज्रोऽमुं स्वप्नमैक्षत । मत्पात्रस्थं सावशेष, पयः कोऽप्यऽतिथि: पपी ।। ६७।। प्रातस्तं स्वप्नमाचख्यौ, साधूनां साधुसिन्धुरः । तेषामजानतां सम्यक्, तदर्थञ्चैवमब्रवीत् ।। ६८।। आगन्ताद्य मुनिः कोपि, स च पूर्वगतं श्रुतम् । अस्मत्पार्धात्सुधीः सर्वं, किञ्चिदूनं ग्रहीष्यति ।।६९।। अथार्यरक्षितः प्रात-र्वज्राचार्यमवन्दत । कुत आगास्त्वमिति ? तं, वज्रस्वाम्यपि पृष्टवान् ! ।। ७०।। सोऽवक् तोसलिपुत्रा-सूरिपार्धादिहागमम् । किमार्यरक्षितोऽसि ? त्व-मिति वज्रोऽपि तं जगी ।। ७१।। एवमेवेति तेनोक्ते वज्रसूरिरदोऽवदत् । स्वागतं तव किन्तु त्वं, स्थितोऽसि क्व प्रतिश्रये ? ।।७२।। सोऽवग् बहिः स्थितोस्मीति, ततो वज्रस्तमभ्यधात् । बहिः स्थितं कथङ्कारं, त्वं पठिष्यसि ? सन्मते ! ।।७३।। सोऽवादीत् भद्रगुप्ताह्र-सूरीन्द्रस्यानुशासनात् । स्वामिनहमितो भिन्न-मुपाश्रयमुपाश्रयम् ।।७४।। दत्तोपयोगं वज्रोऽपि, तनिमित्तं विभाव्य च । प्रोचे युक्तमिदं प्रोक्तं, तैः पूज्यैर्ज्ञानसागरैः ।।७५।। अथाऽन्यवसतिस्थस्या-प्यार्यरक्षितसन्मुनेः । श्रीमान् वज्रगुरुः पूर्वा-ऽध्यापनाय प्रचक्रमे ।। ७६।। Nell Isil llel llell Isll lion llell llell Nell llell IIsl llel Ill ||७|| || lol sil Hell 161 Jain Education in For Personal & Private Use Only ||slmisinelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy