________________
उत्तराध्ययन
सूत्रम्
iel परिषहनाम is द्वितीयIS मध्ययनम्
७३
16ll
Ish
Isil
||७||
llell
||6|| Isl
llall
अध्येतुं दृष्टिवादं हि, पूज्यनाहमशिश्रियम् । तत्तदध्यापनेनोः , प्रसादः क्रियतां मयि ! ।।५१।। तच्छ्रुत्वा सूरयोऽप्यूचु-र्यद्येवं तत्परिव्रज । क्रमेण दृष्टिवादं ते, पाठयामो यथा वयम् ।।५२।। सोमजन्माप्युवाचैवं, प्रव्राजयत मां द्रुतम् । किन्तु स्थानादतोऽन्यत्र, गन्तव्यं सूरिपुङ्गवैः ।।५३।। इह स्थितं हि मां राजा, स्वजना: पूर्जनास्तथा । दीक्षात: पातयिष्यन्ति, प्रसह्याप्यनुरागतः ।। ५४।। तच्छ्रुत्वा गच्छयुक्तास्ते, तमादायान्यतो व्रजन् । अभूदाद्यमिदं शिष्य-चौर्यं ! श्रीवीरशासने ।। ५५।। तत: प्रव्राजयन्नार्य-रक्षितं मुनिपुङ्गवाः । क्रमाञ्चैकादशाङ्गानि, गुरुपाचे पपाठ सः ।। ५६।। यावांस्तोसलिपुत्राणां, दृष्टिवादः स्फुटोऽभवत् । तावन्तं तं च जग्राह, बुद्धिमानार्यरक्षित: ।। ५७।। श्रीवज्रस्वामिनो भूयान्, दृष्टिवादोऽस्ति सम्प्रति । श्रुत्वेति सोऽचलद्वज्रा-श्रितां प्रति पुरीपुरीम् ।।५८।। मार्गायातामथावन्ती-मासदत् सोमदेवभूः । तत्र श्रीभद्रगुप्ताह्व-सूरिशक्राननाम च ।। ५९।। ते सूरयोऽपि तं सर्व-गुणाढ्यं श्रुतपूर्विणः । उपलक्ष्यालिलिङ्गुर्दाक्, प्रमोदाचैवमूचिरे ।। ६० ।। धन्योऽसि कृतकृत्योऽसि, लब्धजन्मफलोऽसि च । यत्त्यक्त्वा शासनं शैवं, जैनमङ्गीकृतं त्वया ! ।। ६१।। किञ्चाद्यानशनं कर्तु-मिच्छामि स्वल्पजीवितः । ततस्त्वां प्रार्थये वत्स !, भव निर्यामको मम ।। ६२।। ततोऽङ्गीकृत्य तद्वाचं, तस्थौ तत्रार्यरक्षितः । ते सूरयोप्यनशनं, विधायेति तमूचिरे ।। ६३।।
Isil
|
llell Isll
6lll llell
sil ilsil llell 11sil isll Noll Well
Moll
ell Hell loll foll Ioll ller foll
fall llall
७३
Jan Education international
For Personal & Private Use Only
www.jainelibrary.org