________________
उत्तराध्ययनसूत्रम्
१११५
ఈ చావాలో తార
पश्चात्तापात्, पुरस्ताञ्च कथमयं सुरूपस्त्र्यादिवस्तुस्वामी मया वञ्चनीय इति चिन्तया, प्रयोगकाले च किमसौ ममालीकभाषितां प्रमादस्थानलक्षयिष्यति न वेति क्षोभतः । तथा 'दुरंतेत्ति' दुष्टोऽन्तः पर्यन्तः इह जन्मन्यनेकविडम्बनातोऽन्यभवे च नरकादिप्राप्त्या यस्य स दुरन्तो भवति जन्तुरिति शेषः । अथवा 'मोसस्सत्ति' मोषस्य स्तेयस्य इति व्याख्येयम् । एवममुना प्रकारेणादत्तानि समाददानो रूपेऽतृप्तः सन् दुःखितः स्यादितिशेषः । कीदृशः सन् ? इत्याह- अनिश्रो दोषवत्तया कस्याप्यवष्टम्भेन रहितः, मैथुनाश्रवोपलक्षणं चैतत् ।। ३१ । । उक्तमेवार्थं निगमयितुमाह
llel
-
व्याख्या - रूपानुरक्तस्य नरस्य एवमनन्तरोक्तनीत्या कुतः सुखं भवेत् ? कदाचित्किञ्चिदल्पमपि कुतः ? इत्याह- यतस्तत्र रूपानुरागे उपभोगेपि क्लेशदुःखं अतृप्तिलाभलक्षणबाधाजनितमसातं भवति । उपभोगमेव विशिनष्टि, निर्वर्त्तयति उत्पादयति यस्योपभोगस्य कृते, 'ण' वाक्यालङ्कारे, दुःखं कृछ्रमात्मन इति गम्यते । उपभोगार्थं हि जन्तुः क्लिश्यते तदा सुखं स्यादिति, यदि च तदापि दुःखमेव तदा कुतोऽन्यदा सुखं ॥६॥ स्यादिति भावः ।। ३२ । । एवं रागस्यानर्थहेतुतामुक्त्वा द्वेषस्यापि तामतिदेष्टुमाह -
Jain Education International
रूवाणुरत्तस्स रस्स एवं कत्तो सुहं होज्ज कयाइ किंचि ।
तत्थोवभोगेवि किलेसदुक्खं, निव्वत्तई जस्स कए ण दुक्खं ।। ३२ ।।
For Personal & Private Use Only
రై టైల్ లో లౌ
नाम
द्वात्रिंश
मध्ययनम्
१११५
www.jninelibrary.org