________________
उत्तराध्ययन
सूत्रम्
११११
॥७॥ lle.
रूवेसु जो गिद्धिमुवेइ तिव्वं, अकालिअं पावइ से विणासं । रागाउरे से जह वा पयंगे, आलोअलोले समुवेइ मनुं ।। २४ ।।
व्याख्या - रूपेषु यो गृद्धिं रागमुपैति तीव्रां अकाले भवमाकालिकं प्राप्नोति स विनाशं, रागातुरः सन् स इति लोकप्रतीतः, यथा वेति वाशब्दस्यैवकारार्थत्वात् यथैव पतङ्गः आलोकलोलोऽ तिस्निग्धदीपशिखादर्शनलम्पटः समुपैति मृत्युम् ।। २४ ।।
Jain Education International
जे यावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से ।। २५ ।।
व्याख्या - यश्च यस्तु अपिभिन्नक्रमोऽन्यत्र योक्ष्यते, द्वेषं समुपैति तीव्रं रूपेष्विति प्रक्रमः, स किमित्याह- 'तंसित्ति' प्राच्यस्यापिशब्दस्येह योगात्तस्मिन्नपि क्षणे स तु पूर्त्तो उपैति दुःखं मनः सन्तापादिकं, यद्येवं तर्हि रूपस्यैव दुःखहेतुत्वं तत एव द्वेषसम्भवादित्याशङ्क्याह-दुष्टं दान्तं दमनं दुर्दान्तं दुर्द्दमत्वमित्यर्थः तच प्रक्रमाचक्षुषस्तदेव दोषो दुर्दान्तदोषस्तेन स्वकेनात्मीयेन जन्तुर्देही, न किञ्चिदल्पमपि रूपमपराध्यति तस्य जन्तोः । यदि हि रूपमेव दुःखहेतुः स्यात्तदा वीतरागद्वेषस्यापि दुष्टरूपनिरूपणे दुःखं स्यान्नचैतदस्ति, ततः स्वस्यैव दोषेण दुःखमाप्नोति प्राणीति भावः ।। २५ ।। इत्थं रागद्वेषयोरनर्थहेतुत्वमुक्तं इदानीं तु द्वेषस्यापि रागहेतुकत्वात् स एव महानर्थमूलमिति दर्शयन् तस्य विशेषात्परित्याज्यतां ख्यापयितुमाह -
For Personal & Private Use Only
నావా మ త త లె రె
SALLOT
प्रमादस्थान
नाम
द्वात्रिंशमध्ययनम्
११११
www.jainelibrary.org