________________
H७॥ Ill प्रमादस्थान
llel
lel
उत्तराध्ययन
चक्खुस्स रूवं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । सूत्रम् ||
नाम १११०
तं दोसहेउं अमणुण्णमाहु, समो उ जो तेसु स वीअरागो ।।२२।। व्याख्या - चक्षुषो रूपं गृह्यतेऽनेनेति ग्रहणमाक्षेपकं वदन्ति, ततः किमित्याह-तद्रूपं रागहेतुं तुः पूर्ती मनोज्ञमाहुः, तथा तद्रूपमेव ॥
द्वात्रिंश
मध्ययनम MS द्वेषहेतुममनोज्ञमाहुः, ततस्तयोश्चक्षुः प्रवर्त्तने रागद्वेषसम्भवात्तदुद्धरणाशक्तिलक्षणो दोष: स्यादिति भावः । आहैवं न कोऽपि सति रूपे Mll वीतरागः स्यादत आह - समस्त्वरक्तद्विष्टतया तुल्यः पुनर्यस्तयोर्मनोज्ञेतररूपयोः स वीतराग इव वीतरागः, उपलक्षणत्वाद्वीतद्वेषश्च । अयं ॥ fll भावः - न तावत्तयोश्चक्षुः प्रवर्त्तयेत्, कथञ्चित्प्रवृत्तौ तु समतामेवावलम्बेतेति ।। २२।। ननु यद्येवं तर्हि रूपमेव रागद्वेषजनकं, न तु Mall चक्षुस्तत्किं चक्षुर्निग्रहेणेति शङ्कापोहायाह - ||61
रूवस्स चक्खं गहणं वयंति, चक्खुस्स रूवं गहणं वयंति ।
रागस्स हेउं समणुण्णमाहु, दोसस्सहेउं अमणुण्णमाहु ।।२३।। व्याख्या - रूपस्य चक्षुर्गृह्णातीति ग्रहणं ग्राहकमित्यर्थः वदन्ति, तथा चक्षुषो रूपं गृह्यते इति ग्रहणं ग्राह्यं वदन्ति अनेन रूपचक्षुषोरन्योन्यं ||
ग्राह्यग्राहकभावलक्षणः सम्बन्धो दर्शितस्ततो यथा रूपं रागद्वेषकारणं तथा चक्षुरपीत्युक्तं भवति अत एवाह-रागस्सेत्यादि-रागस्य हेतुं प्रक्रमाञ्चक्षुः
सह मनोज्ञेन ग्राह्येण रूपेण वर्त्तते इति समनोज्ञमाहुः, द्वेषस्य हेतुं अमनोज्ञं मनोज्ञरूपरहितमाहुस्ततो युक्त एव चक्षुषो निग्रह इति भावः ।। २३ ।। | इत्थं रागद्वेषोद्धरणोपायमुक्त्वा तदनुद्धरणे दोषमाह -
Ileel
Mel
Well
१११०
||all
in Education International
For Personal & Private Use Only
www.jainelibrary.org