________________
उत्तराध्ययन
सूत्रम् ११०३
व्याख्या – दुःखमुक्तरूपं हतमिव हतं, केनेत्याह-यस्य न भवति मोहो मोहस्यैव तन्मूलहेतुत्वात् । मोहो हतो यस्य न भवति तृष्णा, || मोहायतनत्वात् तस्याः । तृष्णा हता यस्य न भवति लोभः, तृष्णाशब्देनोक्तनीत्या रागद्वेषयोरुक्तत्वात्, तयोश्च लोभक्षये सर्वथैवाभावात्, अत एव प्राधान्यात् रागान्तर्गतत्वेपि लोभस्य पृथग्ग्रहणं । लोभो हतो यस्य न किञ्चनानि द्रव्याणि सन्तीति शेषः, सत्सु हि तेषु प्रायः स्यादेवाभिकाङ्क्षेति सूत्रत्रयार्थः ।। ८ ।। ननु सन्तु दुःखस्य मोहाद्या हेतवो हननोपायस्तेषां पूर्वोक्त एव उतान्येपि सन्तीत्याशङ्क्य सविस्तरं 16 तदुन्मूलनोपायान् विवक्षुः प्रस्तावनामाह -
GOELLLLLL
दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ तहा । तण्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किंचणाई ॥ ८ ॥
Jain Education International
रागं च दोसं च तहेव मोहं उद्धत्तुकामेण समूलजालं ।
जे जे वाया पडिवज्जिव्वा, ते कित्तइस्सामि अहाणुपुव्विं ।। ९ ।।
व्याख्या - रागं च द्वेषं च तथैव मोहं उद्धर्तुकामेन उन्मूलयितुमिच्छता सह मूलानां तीव्रकषायादीनां विषयादीनां च जालेन वर्त्तते योऽसौ समूलजालस्तं, ये ये उपायाः प्रतिपत्तव्याः स्वीकार्यास्तान् कीर्त्तयिष्यामि यथानुपूर्वीति सूत्रार्थ: ।। ९ ।। प्रतिज्ञातमाह -
For Personal & Private Use Only
॥ प्रमादस्थान
नाम
द्वात्रिंश
मध्ययनम्
၈၈၈၈
222222
११०३
www.jninelibrary.org