________________
उत्तराध्ययन
सूत्रम् ११०२
मध्ययनम्
जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य ।
प्रमादस्थानएमेव मोहाययणं खु तण्हा, मोहं च तण्हाययणं वयंति ।।६।।
नाम व्याख्या - यथा च येनैव प्रकारेण अण्डप्रभवा बलाका, अण्डं बलाकाप्रभवं च यथा । एवमेवानेनैव प्रकारेण मोहोऽज्ञानं मिथ्यादर्शनं
द्वात्रिंशl च स आयतनमुत्पत्तिस्थानं यस्याः सा मोहायतना तां खुरवधारणे 'तण्हत्ति' तृष्णां वदन्तीति सम्बन्धः, यथोक्तमोहाभावे ह्यवश्यं तृष्णाक्षयः
स्यादिति । मोहं च तृष्णायतनं वदन्ति, तृष्णा नाम सत्यसति वा वस्तुनि मूर्छा, सा च रागप्रधाना ततस्तया राग उपलक्ष्यते, सति च तत्र Moll द्वेषोऽपि सम्भवतीति सोप्यनेनैवाक्षिप्यते, ततस्तृष्णाग्रहणेन रागद्वेषावुक्तो, तदुत्कटत्वे चोपशान्तमोहस्यापि मिथ्यात्वगमनसम्भवात्सिद्ध ।
एवाऽज्ञानादिरूपो मोहः, तृष्णातः । अनेन चान्योन्यं हेतुहेतुमद्भावाभिधानेन यथा मोहादीनामुत्पादस्तथोक्तम् ।।६।। अथ यथैषां दुःखहेतुत्वं l तथा वक्तुमाह -
रागो य दोसोवि य कम्मबीयं, कम्मं च मोहप्पभवं वयंति ।
कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ।।७।। व्याख्या - रागश्च द्वेषोपि च कर्मणो ज्ञानावरणादेबीजं कारणं, अत एव कर्म च मोहप्रभवं मोहोपादानकारणं वदन्ति । कर्म च जातिमरणस्य मूलं कारणं, दुःखं च दुःखहेतुः पुनर्जातिमरणं वदन्ति ।।७।। यतश्चैवमतः किं स्थितमित्याह -
११०२
lol
TA
Isl
Hal
Jan Education international
For Personal & Private Use Only