________________
Isl उत्तराध्ययनसूत्रम् foll
llol १०९९
।। अथ प्रमादस्थाननाम द्वात्रिंशमध्ययनम् ।।
॥ प्रमादस्थान
नाम ।। ॐ ।। उक्तमेकत्रिंशमध्ययनं अथ प्रमादस्थानाख्यं द्वात्रिंशमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने चरणमुक्तं, तञ्च
द्वात्रिंशप्रमादस्थानत्यागादेवासेव्यते, तत्त्यागश्च तत्परिज्ञानपूर्वक इति तदर्थमिदमारभ्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम् -
मध्ययनम् अनंतकालस्स समूलयस्स, सव्वस्स दुक्खस्स उ जो पमोक्खो ।
तं भासओ मे पडिपुण्णचित्ता, सुणेह एगंतहियं हियत्थं ।।१।। व्याख्या - अन्तमतिक्रान्तोऽत्यन्तो वस्तुनश्च द्वावन्तौ प्रारम्भक्षणो निष्टाक्षणश्च, तत्रेहारम्भक्षणलक्षणोऽन्तः परिगृह्यते, तथा - चात्यन्तोऽनादिः कालो यस्य सोऽत्यन्तकालस्तस्य, सह मूलेन कषायाविरतिरूपेण वर्त्तते इति समूलकस्तस्य, सर्वस्य दुःखयतीति दुःख: Ms संसारस्तस्य, तुः पूर्ता, यः प्रकर्षण मोक्षोऽपगमः प्रमोक्षः तं भाषमाणस्य मे, प्रतिपूर्ण प्रस्तुतार्थश्रवणव्यतिरिक्तविषयान्तरागमनेनाखण्डितं
l चित्तं येषां ते प्रतिपूर्णचित्ताः सन्तो यूयं शृणुत, एकान्तेन निश्चयेन हितं एकान्तहितं, हितस्तत्त्वतो मोक्ष एव तदर्थमिति सूत्रार्थः ।।१।। on प्रतिज्ञातमाह - lol
१०९९
lloll
Jan Education international
For Personal & Private Use Only