SearchBrowseAboutContactDonate
Page Preview
Page 1120
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १०७८ आलोअणारिहाईअं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्मं, पायछित्तं तमाहि ।।३१।। तयोमार्गव्याख्या - आलोचनार्ह यत्पापमालोचनात एव शुध्यति तदादिकं, आदिशब्दात् प्रतिक्रमणार्हादिग्रहणं, इह च ॥ गतिनाम त्रिंशत्तम& विषयविषयिणोरभेदोपचारादेवंविधपापविशुद्ध्युपायभूतानि आलोचनादीन्येव आलोचनार्हादिशब्दैरुक्तानि । प्रायश्चित्तं तुरेवकारार्थो भिन्नक्रमश्च, मध्ययनम् M ततो दशविधमेव । दशविधत्वं चैवं - "आलोअण १ पडिक्कमणे २, मीस ३ विवेगे ४ तहा विउसग्गे ५ । तव ६ छेअ ७ मूल ८ व अणवठ्ठयाय ९ पारंचिए १० चेव ।।१।।" तत्र आलोचना गुरोः पुरो वचसा प्रकाशनं, तन्मात्रेणैव यत्पातकं शुध्यति तदालोचनाहम् ।। १।। II Mell प्रायश्चित्तं त्विहालोचनैव, एवमग्रेपि । प्रतिक्रमणं दोषानिवृत्तिमिथ्यादुष्कृतदानमित्यर्थः, तन्मात्रेणैव यत्सहसात्कारजातं सावधवचनादिपापं ॥ • शुध्यति न तु गुरुसमक्षमालोच्यते तत्प्रतिक्रमणार्हम् ।।२।। तथा यत्र गुरुसमक्षमालोच्य तदाज्ञया मिथ्यादुष्कृतं दत्ते । 6 तदालोचनाप्रतिक्रमणार्हत्वान्मिश्रम् ॥३॥ तथा विवेकः पृथक्करणं, तन्मात्रेणैव यस्य शुद्धिस्तद्विवेकार्हम् । जायते हि M कथञ्चिदशुद्धाहारादिग्रहणे तत्त्यागमात्रेणैव शुद्धिरिति ।। ४।। व्युत्सर्ग: कायोत्सर्गस्तेनैव यस्य शुद्धिस्तत्तदहम् ।।५।। तथा यत्र प्रतिसेविते l IMGM निर्विकृतिकादि षण्मासान्तं तपो दीयते तत्तपोर्हम् ।।६।। यत्र चासेविते पर्यायच्छेदः क्रियते तच्छेदार्हम् ।।७।। यत्र चापतिते सर्वं ॥ 6 पर्यायमुच्छेद्य मूलतो व्रतारोप: स्यात्तन्मूलार्हम् ।।८।। येन पुन: सेवितेन उपस्थापनाया अप्ययोग्यः सन् यावद्गुरूक्तं तपो न कुर्यात्तावद् व्रतेषु न । 16 स्थाप्यते, आचीर्णतपास्तु दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्यम् ।।९।। यस्मिन् सेविते लिङ्ग-क्षेत्र-काल-तपसा पारमञ्चति तत्पाराञ्चितं, । lloll licil Jain Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy