SearchBrowseAboutContactDonate
Page Preview
Page 1119
Loading...
Download File
Download File
Page Text
________________ TTTTTT 11611 उत्तराध्ययन आदिशब्दाद्गोदोहिकादिग्रहणं, लोचाद्युपलक्षणं चैतत्, जीवस्य तुरवधारणे भिन्नक्रमश्च ततः सुखावहान्येव मुक्तिहेतुत्वात् शुभावहान्येव उग्राणि ॥ तयोमार्गसूत्रम् दुष्करतयोत्कटानि यथा येन प्रकारेण धार्यन्ते सेव्यन्ते कायक्लेशः स आख्यातः कथितस्तथैवेति शेष इति सूत्रार्थः ।। २७ ।। संलीनतामाह - ॥६॥ गतिनाम ||७|| १०७७ ॥७॥ त्रिंशत्तम ||९|| मध्ययनम् FT TO STOT एतमणावाए, इत्थीपसुविवज्जिए । सयणासणसेवणया, विवित्तसयणासणं ।। २८ । । व्याख्या – 'एगंतत्ति' सुब्व्यत्ययादेकान्ते जनानाकुले, अनापाते स्त्र्याद्यापातरहिते, स्त्रीपशुविवर्जिते तत्रैवावस्थितस्त्र्यादिवियुक्ते शून्यागारादावित्यर्थः, 'सयणासणसेवणयत्ति' शयनासनसेवनं विविक्तशयनासनं नाम बाह्यं तप उच्यते, उपलक्षणं चैतदेषणीयफलकादिग्रहणस्य, अनेन च विविक्तचर्याख्या संलीनतोक्ता, शेषसंलीनतोपलक्षणमेषा, यतश्चतुर्विधेयमुक्ता, तथा हि - "इंदिअ १ कसाय २ जोगे ३, पडुन संलीणया मुणेअव्वा । तह जा विवित्तचरिआ ४, पणत्ता वीरागेहिं । । १ । । " तत्रेन्द्रियसंलीनता मनोज्ञामनोज्ञेषु शब्दादिषु रागद्वेषाकरणात् १ कषायसंलीनता तदुदयनिरोधादेः २ योगसंलीनता मनोवाक्कायानां शुभेषु प्रवृत्तेरशुभान्निवृत्तेश्च ३ इति सूत्रार्थः ।। २८ । । उक्तमेवार्थमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाह एसो बाहिरगतवो, समासेण विआहिओ । अब्भितरं तवं एत्तो, वोच्छामि अणुपुव्वसो ।। २९ ।। व्याख्या - स्पष्टम् ।। २९ । । प्रतिज्ञातमेवाह - पायछित्तं विणओ, वेआवञ्चं तहेव सज्झाओ । झाणं च विउस्सग्गो, एसो अब्भितरो तवो ।। ३० ।। व्याख्या - अक्षरार्थः सुगमो भावार्थं तु सूत्रकृदेवाह - Jain Education International For Personal & Private Use Only १०७७ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy