________________
उत्तराध्ययनसूत्रम् १०७५
చౌ చాచా చా చా చా చా చా చా
एक सिक्थोनत्वादयः एतैः सर्वैरपि अवममुपलक्षणत्वादवमौदर्य चरतीत्यवमचरकः पर्यवचरको भवेद्भिक्षुः । इह पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदर्यमुक्तं, एवं क्षेत्रावमोदर्यादीन्यपि क्षेत्रादिप्राधान्यविवक्षया ज्ञेयानि, तत्त्वतो हि तेष्वपि द्रव्यावमौदर्यस्य सम्भवात् । यत्रापि च द्रव्यतो न्यूनत्वमुदरस्य नास्ति तत्रापि क्षेत्रादिन्यूनतामपेक्ष्यावमौदर्याणि भण्यन्त इति सूत्रैकादशकार्थः ।। २४ ।। भिक्षाचर्यामाह -
अट्ठविहगोअरग्गं तु, तहा सत्तेव एसणा । अभिग्गहा य जे अन्ने, भिक्खायरिअमाहिआ ।। २५ ।।
व्याख्या -
'अट्ठविहगोअरग्गंति' प्राकृतत्वादष्टविधः अग्रः प्रधानोऽकल्पपरिहारेण स चासौ गोचरश्च उच्चावचकुलेष्वविशेषेण भ्रमणमष्टविधाप्रगोचरः, तुः पूर्त्ती । तथा सप्तैव एषणा अभिग्रहाश्च येऽन्ये तदतिरिक्तास्ते किमित्याह 'भिक्खायरिअमाहिअत्ति' भिक्षाचर्या वृत्तिसङ्क्षेपापरनामिका आख्याता कथिता । अत्राष्टी अग्रगोचरभेदाः पेटादय एव तेषु शम्बूकावर्त्ताया द्वैविध्यस्य पार्थक्याश्रयणात्, आयतायाश्च गमनेऽपि वलमानत्वे इव पृथग्ग्रहणात् तेषामष्टविधत्वं ज्ञेयं । सप्तैषणाश्चेमाः - "संसट्टमसंसट्टा २, उद्धड ३ तह अप्पलेविआ चेव ४ । उग्गहिआ ५ पग्गहिआ ६, उज्झिअधम्मा य ७ सत्तमिआ ।। १ ।। " संसृष्टाभ्यां हस्तपात्राभ्यां भिक्षां गृह्णतः प्रथमा || १ || असंसृष्टाभ्यां तु ताभ्यां गृह्णतो द्वितीया ।। २ ।। पाकस्थानात् यत् स्थाल्यादौ स्वार्थं भोजनायोद्धृतं ततो गृह्णतः उद्धृताख्या तृतीया ।। ३॥ निर्लेपं पृथुकादिगृह्णतोऽल्पलेपा चतुर्थी ।। ४।। उद्गृहीता नाम भोजनकाले भोक्तुकामस्य परिवेषयितुं दर्व्वीशरावादिना यदुपहतं भोजनजातं
१ संसृष्टाभ्यां तत्खरण्टिताभ्यां हस्तपात्राभ्यामिति "घ" पुस्तके ।।
Jain Education International
For Personal & Private Use Only
200200
तयोमार्गगतिनाम
त्रिंशत्तम
मध्ययनम्
१०७५
www.jninelibrary.org