SearchBrowseAboutContactDonate
Page Preview
Page 1113
Loading...
Download File
Download File
Page Text
________________ ॥७॥ Isl उत्तराध्ययन सूत्रम् १०७१ Is हि द्वात्रिंशत्कवलमान आहारः, स्त्रियाश्चाष्टाविंशतिकवलमानः । कवलश्चेह यस्मिन् क्षिप्ते मुखस्य नातिविकृतत्वं स्यात्तावन्मानो ज्ञेयः । ततश्चैतन्मानादूनं । तयोमार्गकि यो भुङ्क्ते यत्तदोनित्याभिसम्बन्धात् तस्य एवममुना प्रकारेण द्रव्येणोपाधिभूतेन भवेदिति सण्टङ्कः, अवमौदर्यमिति प्रक्रमः, एतञ्च जघन्येनेकसिक्थं गतिनाम ॥ यत्रैकमेव सिक्थं भुज्यते तदादि, आदिशब्दासिक्थद्वयादारभ्य यावदेककवलभोजनम् । इत्थं चाल्पाहाराबमवमौदर्यमाश्रित्योच्यते, यत उपार्द्धादिषु ॥ त्रिंशत्तम तद्भेदेषु कवलनवकादिमानमेव जघन्यं स्यात्तथा च सम्प्रदायः - "अप्पाहारोमोअरिआ जहण्णेणेगकवला, उक्कोसेणं अट्ठ कवला, सेसा मध्ययनम् Is अजहन्नमणुक्कोसा । उबड्डाहारोमोअरिआजहन्नेणं नव कवला, उक्कोसेणं बारस कवला, सेसा अजहन्नमणुक्कोसा" इत्यादि-एतद्भेदाश्चामी "अप्पाहार १०॥ उवड्डा २, दुभाग ३ पत्ता ४ तहेव किंचूणा ५ । अट्ठ १ दुवालस २ सोलस ३, चउवीस ४ तहेक्कतीसा ५ य ।।१॥" अत्राष्टादिभिः । M&ll सङ्ख्याशब्दैरल्पाहारादीनामूनोदरताभेदानां उत्कर्षत: कवलमानमुक्तम् ।।१५।। क्षेत्रावमौदर्यमाह गामे नगरे तह रायहाणि निगमे अ आगरे पल्ली । खेडे कब्बड-दोणमुह-पट्टण-मडंब-संबाहे ।।१६।। व्याख्या - ग्रामे नगरे च प्रतीते, राजधानी च राजावस्थानस्थानं निगमश्च प्रभूततरवणिजां निवासोऽनयोः समाहार: राजधानीनिगमं तस्मिन्, fal आकरे स्वर्णाद्युत्पत्तिस्थाने, पल्लयां वृक्षगहनाद्याश्रितप्रान्तजननिवासरूपायां, खेटे पांशुवप्रपरिक्षिप्ते, कर्बट कुनगरं, द्रोणमुखं, MS जलस्थलपथनिर्गमप्रवेशं यथा भृगुकच्छं, पत्तनं द्विधा जलपत्तनं स्थलपत्तनं च, तत्राद्यं जलमध्यवत्ति इतरनिर्जलभूभागभावि, मडम्बं सर्वदिक्षु का छ अर्द्धतृतीययोजनान्तर्घामान्तररहितं, सम्बाधः प्रभूतचातुर्वण्यनिवासः, कर्बटादीनां समाहारद्वन्द्वस्तस्मिन् ।।१६।। १०७१ llell Jell | in Education International For Personal & Prive Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy