SearchBrowseAboutContactDonate
Page Preview
Page 1111
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १०६९ है || समास्तृतमृदुसंस्तारकस्त्यक्तभक्तकरणोपकरणादिममत्वः स्वयमुञ्चरितनमस्कारः पार्श्ववर्त्तिमुनिदत्तनमस्कारो वा सत्यां शक्तौ स्वयमुद्वर्त्तनादि कुरुते, शक्तेरभावेऽपरैरपि किञ्चित्कारयतीति ।। १ ।। इङ्गिनीमरणे त्वालोचनासंलेखनादिपूर्वं शुद्धस्थण्डिलस्थित एकाक्येव कृतचतुर्विधाहार-प्रत्याख्यानो नियमितस्थण्डिलस्यैवान्तश्छायात उष्णमुष्णाच च्छायां स्वयमेव सङ्क्रामति न त्वन्येन किञ्चित्कारयतीति ।। २ ।। अविचारं तु पादपोपगमनं तत्र हि देवगुरुवन्दनादिविधिना चतुर्विधाहारप्रत्याख्यानं कृत्वा गिरिकन्दरादौ गत्वा पादप इव यावज्जीवं निश्चेष्ट एवावतिष्ठते । । ३ । । १२ ।। पुनर्द्वैविध्यमेव ॥७॥ प्रकारान्तरेणाह - 20 O O S S S చాచాలో अहवा सपरिक्कम्मा, अपरिक्कम्मा य आहिआ । नीहारिमनीहारि, आहारच्छेओ दोसुवि ।। १३ ।। व्याख्या - अथवेति प्रकारान्तरसूचने, सपरिकर्म स्थानोपवेशनत्वग्वर्त्तनोद्वर्त्तनादिलक्षणपरिकर्मयुक्तं, अपरिकर्म च तद्विपरीतमाख्यातं, तत्र सपरिकर्म भक्तप्रत्याख्यानमिङ्गिनीमरणं च आद्ये स्वपरकृतस्य द्वितीये तु स्वयंकृतस्योद्वर्त्तनादिपरिकर्मणः सद्भावात्, अपरिकर्म तु पादपोपगमनं तत्र सर्वथा परिकर्माभावात् । उक्तञ्च – “समविसमंमि य पडिओ, अच्छइ सो पायव्वोव निक्कंपो । चलणं परप्पओगा, नवरि ॥७॥ दुम्मस्सेव तस्स भवे ।। १ ।। " यद्वा परिकर्म संलेखना सा यत्रास्ति तत्सपरिकर्म, तद्विपरीतं त्वपरिकर्म, तत्र च व्याघाताभावे भक्तपरिज्ञादित्रयमप्येतत्सूत्रार्थोभयनिष्ठो निष्पादितशिष्यः संलेखनापूर्वकमेव करोति, अन्यथाऽऽर्त्तध्यानसम्भवात् यदुक्तं "देहम्मि असंलिहिए, सहसा धाऊहिं खिज्ज्रमाणेहिं । जायइ अट्टज्झाणं, सरीरिणो चरिमकालम्मि ।। १ । ।" इति सपरिकर्म्माच्यते । यत्पुनर्व्याघाते Jain Education International For Personal & Private Use Only - POSTAL तयोमार्ग गतिनाम त्रिंशत्तममध्ययनम् १०६९ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy