________________
उत्तराध्ययन
सूत्रम् १०६६
DOSTO DOTAKOSE
DOE DOODLE
अणसणमूणोअरिआ, भिक्खायरिया य रसपरिचाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ।। ८ ।। व्याख्या - अक्षरार्थः स्पष्टो भावार्थं तु सूत्रकृदेव वक्ष्यति ।। ८ ।। तत्रानशनस्वरूपं तावदाह -
इत्तरिअ मरणकाला य, दुविहा अणसणा भवे । इत्तरिआ सावकंखा, निरवकंखा उ बिइज्जिआ ।।९।।
व्याख्या - इत्वरमेव इत्वरकं स्वल्पकालावधीत्यर्थः, मरणपर्यन्तः कालो यस्य तन्मरणकालं यावज्जीवमित्यर्थः चः समुचये, इत्येवमनशनं द्विविधं भवेत् । तत्र इत्वरं सहावकाङ्क्षया घटिकाद्वयाद्युत्तरकालं भोजनाभिलाषरूपया वर्त्तते इति सावकाङ्क्ष, निरवकाङ्क्ष तत्र भवे भोजनाशंसाभावेन, तुः पुनरर्थो भिन्नक्रमश्च ततो द्वितीयं पुनर्मरणकालाख्यम् ।। ९।। तत्रेत्वरानशनभेदानाह -
जो सो इत्तरिअतवो, सो समासेण छव्विहो । सेढितवो १ पयरतवो २, घणो अ ३ तह होइ वग्गो अ ४ ।। १० ।।
व्याख्या - यत्तदित्वरकतप इत्वरानशनरूपं तत्समासेन षड्विधं षड्विधत्वमेवाह 'सेढितवो' इत्यादि श्रेणिः पङ्किस्तदुपलक्षितं तपः ॥॥ श्रेणितपः, तच चतुर्थादिक्रमेण क्रियमाणं षण्मासान्तं गृह्यते । तथा श्रेणिरेव श्रेण्या गुणिता प्रतर उच्यते, तदुपलक्षितं तपः प्रतरतपः । इह च अव्यामोहार्थं चतुर्थषष्ठाष्टमदशमाख्यपदचतुष्कात्मिका श्रेणिर्विवक्ष्यते सा चतुर्भिर्गुणिता षोडशपदात्मकः प्रतरो भवति । अयं चायामतो विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते । एकाद्याद्या व्यवस्थाप्याः पङ्कयो हि यथाक्रमम् । द्वितीयाद्या क्रमाचैताः,
Jain Education International
sil तयोमार्ग
गतिनाम त्रिंशत्तम
मध्ययनम्
For Personal & Private Use Only
LETOOT
१०६६
www.jninelibrary.org