________________
उत्तराध्ययन
सूत्रम्
१०६५
व्याख्या -
- एतेषां प्राणिवधविरत्यादीनां समित्यादीनां चानाश्रवहेतूनां विपर्यासे सति यद्रागद्वेषाभ्यां समर्जितं कर्मेति शेष:, क्षपयति तु यथा भिक्षुस्तन्मे कथयत इति शेषः, एकमनाः शृणु ।। ४ ।।
जहा महातलागस्स, सन्निरुद्धे जलागमे । उस्सिंचणाए तवणाए, कमेणं सोसणा भवे ।। ५ ।।
व्याख्या – यथा महातटाकस्य सन्निरुद्धे पाल्यादिना निरुद्धे जलागमे 'उस्सिंचणाएत्ति' उत्सिञ्चनेनारघट्टघट्यादिभिरुदञ्चनेन तपनेनार्क करतापेन क्रमेण शोषणा जलाभावरूपा भवेत् ।। ५ ।।
एवं तु संजयस्सावि, पावकम्मनिरासवे । भवकोडिसंचिअं कम्मं, तवसा निज्जरिज्जइ || ६ ||
व्याख्या - 'एवं तुत्ति' एवमेव संयतस्यापि पापकर्मणां निराश्रवे आश्रवाभावे पापकर्मनिराश्रवे सति भवकोटिसञ्चितं कर्म्म, अतिबहुत्वोपलक्षणमेतत्, तपसा निर्जीर्यते इति सूत्रत्रयार्थः ।। ६ ।। तपसा कर्म निर्जीर्यते इत्युक्तमतस्तद्भेदानाह -
सो वो दुविहो वृत्तो, बाहिरब्भितरो तहा । बाहिरो छव्विहो वृत्तो, एवमब्भिंतरो तवो ।। ७ ।।
व्याख्या 'सो तवोत्ति' तत्तपो द्विविधं प्रोक्तं, लिङ्गव्यत्ययः सर्वत्र सूत्रत्वात्, बाह्यमाभ्यन्तरं तथा । तत्र बाह्यं बाह्यद्रव्यापेक्षत्वाल्लोकप्रतीतत्वात्कुतीर्थिकैरपि स्वाभिप्रायेण सेव्यमानत्वात् बहिः शरीरस्य वा तापकारित्वात् मुक्तिप्राप्तौ प्रायो बाह्याङ्गत्वाद्वा । तद्विपरीतं त्वाभ्यन्तरमिति सूत्रार्थ: ।। ७ ।। तत्र यथा बाह्यं षड्विधं तथाह -
loll
Jain Education International
For Personal & Private Use Only
FTTTTT
TTTTI
तयोमार्ग
गतिनाम
त्रिंशत्तम
मध्ययनम्
१०६५
www.jninelibrary.org