________________
उत्तराध्ययन
सूत्रम्
१०६२
TTTTTE
मणजोगं निरुंभइ निरुंभइत्ता वड्जोगं निरंभइ निरुंभइत्ता आणापाणनिरोहं करेइ करित्ता ईसिं पंचहस्सक्खरुच्चारद्धाए अ णं अणगारे समुच्छिन्नकिरिअं अनिअट्टि सुक्कज्झाणं ज्झियायमाणे वेअणिज्जं आऊअं नामं गोत्तं च एए चत्तारि वि कम्मंसे जुगवं खवेइ ।। ७२ ।। ७४ ।। तओ ओरालिअकम्माइं च सव्वाहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढिपत्ते अफुसमाणगई उड्डुं एगसमएणं अविग्गणं तत्थ गंता सागारोवउत्ते सिज्झइ जाव अंतं करेइ ।। ७३ ।। ७५ ।।
व्याख्या - अथेति केवलित्वानन्तरं आयुष्कं जीवितमन्तर्मुहूर्त्तादिकं देशोनपूर्वकोटीपर्यन्तं पालयित्वा अन्तर्मुहूर्त्तावशेषायुष्को योगनिरोधं 'करेमाणेत्ति' करिष्यमाणः सूक्ष्मा क्रिया यत्र तत्सूक्ष्मक्रियं अप्रतिपाति शुक्लध्यानतृतीयभेदं ध्यायंस्तत्प्रथमतया मनोयोगं मनोद्रव्यसाचिव्यजनितं जीवव्यापारं निरुणद्धि, तं निरुध्य वाग्योगं भाषाद्रव्यसानिध्यनिर्मितं जीवव्यापारं निरुणद्धि, तं च निरुध्य 'आणापाणनिरोहंति' आनापानी उच्छ्वासनिःश्वासौ तन्निरोधं करोति, सकलकाययोगनिरोधोपलक्षणं चैतत्, योगत्रयनिरोधं चैव प्रत्येकमसङ्ख्येयसमयैः कृत्वा ईषदिति स्वल्पप्रयत्नेन पञ्चानां हस्वाक्षराणां अ इ उ ऋ लृ इत्येवंरूपाणां उचारो भणनं तस्याद्धा कालो यावता ते उच्चार्यन्ते सा ईषत्पञ्चहस्वाक्षरोचारणाद्धा तस्यां च ॥॥॥ णं प्राग्वत् । अनगारः समुच्छिन्नक्रियं अनिवृत्ति शुक्लध्यानतुर्यभेदं ध्यायन् शैलेश्यवस्थामनुभवन्निति भावः । हस्वाक्षरोचारणं च न विलम्बितं द्रुतं ॥ वा किन्तु मध्यमप्रतिपत्त्यैवात्र गृह्यते । तादृशश्च सन् किं करोतीत्याह- वेदनीयमायुर्नाम गोत्रं चैतानि चत्वार्यपि 'कम्मंसेत्ति' सत्कर्माणि ॥8॥ युगपत्क्षपयति ।। ततो वेदनीयादिक्षपणानन्तरं 'ओरालिअकम्माई चत्ति' औदारिककार्मणे शरीरे चशब्दात्तैजसं च सर्वाभिः 'विप्पजहणाहिंति' विशेषेण प्रकर्षतो हानयस्त्यजनानि विप्रहाणयस्ताभिः सर्वथा शाटेनेति भाव:, बहुवचनं चात्र व्यक्त्यपेक्षं, विप्रहाय परिशाट्य ऋजुरवक्रा
Jain Education International
For Personal & Private Use Only
सम्यक्त्वप्रराक्रमनाम एकोनत्रिंश||७|| मध्ययनम्
१०६२
www.jainelibrary.org